________________
पञ्चमः प्रकाशः ]
अव० - तवे० हे वीतराग !, तव चमरावली चमरालेन्दुधामधवला चन्द्रकिरणशुभ्रा चकास्ति-शोभत इवोत्प्रेक्षतेहंसालिहंस श्रेणी कथम्भूता ?, वक्त्रा प्रभुवदनकमलसे वापरा ॥ ४ ॥
वि०-हे जगत्साम्राज्यदीक्षित !, स्वामिंस्तव पुरः सुरासुरैः सरभसं दोधूयमाना चमरावलिर्वालव्यजनपद्धतिश्चकास्ति-शोभते । किं विशिष्टा ?, इन्दुघामधवला शरच्छशधरकरप्रकरगौरा । केव ?, हंसालिरित्यादि । तत्र कोमलकण्ठनालोपेतत्वेन ललिताधरदलपरिकलितत्वेन दशनांशुकेशरराजिविराजितत्वेन अङ्करोलम्ब परिचुम्बितत्वेन स्वभावसुरभित्वेन लक्ष्मीनिवासत्वेन च भगवद्क्रमब्जमिवाब्जं तस्य परिचर्यापरायणा - समुपास्तितत्परा हंसालिवि मरालमण्डलीव । समुचिता च सितपत्रिणां शतपत्रसेवा |
किञ्च
६३
मृगेन्द्रासनमारूढे, त्वयि तन्वति देशनाम् | श्रोतुं मृगास्समायान्ति, मृगेन्द्रमिव सेवितुम् ॥५॥
अनु०- देशना देवा माटे आप सिंहासन पर आरूढ थये छते आपनी देशना श्रवण करवा माटे हरणीयाओ आवे छे, ते जाणे पोताना स्वामी मृगेन्द्रनी सेवा करवा माटे आवता होय तेम लागे छे. ( ५ )
अव० - मृगे० हे वीतराग !, त्वयि मृगेन्द्रासनमारूढे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org