________________
६४
[ श्रीवीतरागस्तोत्रे उपविष्टे देशनां-धर्मोपदेशं तन्वति-ददति सति श्रोतुमाकर्णयितुं मृगाः समायान्त्यागच्छन्तीवोत्प्रेक्ष्य मृगेन्द्रं-सिंहासनसिंहं सेवितुम् , जात्यैकवचनं मृगेन्द्रमिति साभिप्रायम् , यो येषामिन्द्रः स तैस्सेव्य इति ।। ५ ॥
वि०-हे प्रमदकुवादिकरीन्द्र पारीन्द्र ! स्वामिस्त्वयि मृगेन्द्रासनं सिंहासनमारूढे देशनां भवविरागपरमपदानुरागजननी धर्मकथां प्रथयति विशुद्धतत्त्वावबोधसमृद्धमेधसो यदमय॑माः श्रोतुमुपन. मन्ति तन्न चित्रम् , यत्तु तद्विलक्षणा मृगाः पशवोऽपि तां श्रोतुं मृगेन्द्रासनोपविष्टत्वेन च स्वस्वामिनं मृगेन्द्रमिव भवन्तमुपासितुं समायान्ति, स तवैव भुवनाद्भुतप्रभावपरिमल इति ॥ ५ ॥
अन्यञ्च
भासां चयैः परिवृतो, ज्योत्स्नाभिरिव चन्द्रमाः। चकोराणामिव दृशां, ददासि परमां मुदम् ॥६॥
अनु०-ज्योत्स्नावडे वींटायेलो चन्द्रमा जेम चकोर पक्षिओना नेत्रोने आनन्द आपे छे, तेम तेजना पुंजस्वरूप भामण्डलवडे वींटायेला आप सजनोनी चक्षुओने परम आनन्द आपो छो. (६) __ अव०-भासां० हे वीतराग ! त्वं भासां चयैर्भामण्डलेन परिवृतः सहितः सुजनदृशां परमां मुदं ददासि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org