________________
पञ्चमः प्रकाशः ]
ईव यथा चन्द्रमा ज्योत्स्नाभिर्वृतचकोराणां पक्षिविशेषाणां मुदं ददाति || ६ ||
वि० - हे निरुपमलवणिमजलनिलय !, स्वामिंस्त्वं दृष्टमात्र एव त्रिभुवनजनदृष्टां परमां वागगोचरामनुभवैकगम्यां मुदं ददासि प्रीतिं प्रयच्छसि । किं विशिष्टः १, भासां चयैः परिवृतः; प्रतिप्रतीकं समुल्लसदुद्वेललवणिमजलोत्पीलपरिप्लुतः । क इव !, चन्द्रमा इव । यथा चन्द्रमाः सुधारकश्वकोरपक्षिणां ज्योत्स्नाजीवातूनां मुदमुदञ्चयति । किं विशिष्ट ?, ज्योत्स्नाभिः परिवृतः कौमुदीभिः कन्दलितI स्तद्वत्त्वमपीति भावः ।
तथा भगवतः समवसृतौ विहारावसरे च देवाः सदैव दिवि देवदुन्दुभि वादयन्त्येतदेव भङ्गयन्तरेणाह -
६५
दुन्दुभिर्विश्वविश्वेश !, पुरो व्योम्नि प्रतिध्वनन् । जगत्या तेषु ते प्राज्यं, साम्राज्यमिव शंसति ॥७॥
अनु० - हे सर्व विश्वना ईश ! आकाशमां आपनी आगळ पडघो पाडतो देवदुन्दुभि, जाणे जगतने विषे आप्त पुरुषोमां आपनुं साम्राज्य छे; एम कहेतो न होय तेम ध्वनित करे छे. (७)
१-' इव' इत्यत आरभ्य ' ददाति इतियावत् पाठः प्रथममुद्रितपुस्तके नास्ति ।
Jain Education International
,
For Private & Personal Use Only
www.jainelibrary.org