________________
[ श्रीवीतरागस्तोत्रे अव०-दुन्दु० हे विश्वविश्वेश!, सर्वजगन्नायक!; दुन्दुभिर्भरीविशेषो देवतासम्बन्धी व्योम्नि गगनस्थः पुरोऽग्रे प्रतिध्वनन् स्वयं शब्दं कुर्वजगत्याप्तेषु सर्वदेवेषु प्राज्यं प्रकृष्टं साम्राज्यमैश्वयं ते तव शंसति कथयतीव, इवोत्प्रेक्षायाम्।।७।।
वि०-हे विश्वविश्वेश ! समग्रभुवनस्वामिस्ते तव पुरोभागे दुन्दुभिव्यॊग्नि वियति सरभसत्रिदशकरतलताडितः प्रतिध्वनन् वाचालितरोदोन्तरालं नादमुनिरन्नुत्प्रेक्ष्यते । जगति विश्वे आप्तानां आसन्ननिर्वृतिपुरप्रवेशत्वेन त्वच्छासनमुद्वहतां तव सम्बन्धि प्राज्यं परिपूर्ण साम्राज्यं धर्मचक्रवर्तित्वं शंसति कथयतीव, तदाकर्णने हि तेषाममन्दानन्दोत्पत्तेः । न च दुन्दुभिनादमन्तरेण जगज्जनानां युगपदभीष्टार्थकथनं शक्यमिति ।
तथा परमार्हन्त्यपदमधितस्थुषः स्वामिनः शिरसि सुराः श्वेतातपत्रत्रयीं धारयन्तीत्येतदेवाष्टमप्रातिहार्य स्तुतिकृद् युक्त्या व्यनक्तितवोर्ध्वमूर्ध्वं पुण्यर्द्धि,-क्रमसब्रह्मचारिणी । छत्रत्रयी त्रिभुवन, प्रभुत्वप्रौढिशंसिनी ॥ ८॥
अनु०-वधती जती एवी आपनी पुण्य ऋद्धिना क्रम समान उपराउपरी रहेलां त्रण छन्त्रो जाणे त्रण भुवनने विषे रहेली आपनी प्रभुतानी प्रौढताने कही रह्यां छे. (८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org