________________
पञ्चमः प्रकाशः ]
६७
अव०-तवो० हे वीतराग !, तव शिरसीति गम्यम् । छत्रत्रय्यू मूर्ध्वमुपर्युपरि व्यवस्थिता, त्रिभु० त्रिभुवनस्य यत्प्रभुत्वं तस्या या प्रौढिः प्रकर्षस्तच्छंसिनी ज्ञापिकाऽस्ति । कथम्भूता ?, पु० पुण्यस्पर्द्धिस्तस्याः क्रमः, प्रथमं सम्यक्त्वम् , ततो देशविरतिस्ततः सर्वविरतिरित्यादिस्तस्य सब्रह्मचारिणी सदृशी नैर्मल्यादिना ॥ ८॥
वि०-हे त्रिभुवनमौलिमाणिक्य !, प्रभो!, तव मौलौ छत्रत्रयी शोभते । कथम् ?, ऊर्द्धमूद्ध उपर्युपरि व्यवस्थिता अत एव पुण्यर्द्धिक्रमसब्रह्मचारिणी तवैव पुण्यसम्पत्प्रकर्षसदृशी । तथाहिप्रथमं सम्यक्त्वप्रतिपत्तिस्ततो देशविरतिरनन्तरं सर्वविरतिस्ततश्चाहदादिस्थानासेवनमनन्तरं तथात्वेनोत्पत्तिः । पुनः समये सर्वविरतिः क्रमादपूर्वकरणक्रमेण क्षपकश्रेणिस्ततः शुक्लध्यानमितो घातिकर्मक्षयस्ततः केवलोत्पत्तिरनन्तरं परमार्हन्त्यसम्पदुपभोगस्ततः सनातनपदावाप्तिरित्युत्तरोत्तरस्ते पुण्यद्धिंक्रमस्तद्वहातपत्रत्रयी । पुनः किं विशिष्टा ?, त्रिभुवनेत्यादि भूर्भुवःस्वःस्वरूपं त्रिभुवनं तस्य प्रभुत्वप्रौढिः प्राभवोत्कर्षस्तां शंसतीत्येवंशीला। किमुक्तं भवति-यः किलैकस्य भुवनस्य प्रभुस्तस्यैकमातपत्रम्, यस्तु भुवनद्वयस्य तस्य द्वे, भगवतस्तु भुवनत्रयस्वामिभिः सरभसमुपास्यमानत्वेन विश्वत्रयपतेः समुचितैव शिरसि श्वेतातपत्रत्रयीति ।
__ एवं प्रतिहार्याण्यभिधाय तद्वक्तव्यतामुपसंहरन्नाह
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org