________________
[ श्रीवीतरागस्तोत्रे एतां चमत्कारकरी, प्रातिहार्यश्रियं तव । चित्रीयन्ते न के दृष्ट्वा, नाथ! मिथ्यादृशोऽपि हि॥९
अनु०-हे नाथ ! चमत्कारने करनारी आपनी आप्रातिहार्य लक्ष्मीने जोईने मिथ्यादृष्टि-आत्माओ पण आश्चर्य नथी पामता?, अर्थात् सौ कोई आश्चर्य पामे छे. (९)
अव०-हे वीतराग ! हे नाथैतां प्रत्यक्षां पूर्वोक्तां चमत्कारकरी तव प्रातिहार्यश्रियं दृष्ट्वा के मिथ्यादृशोऽपि न चित्रीयन्ते-नाश्चयं कुर्वन्ति ?, अपि तु सर्वेऽपि प्रातिहार्याण्यतिशयविशेषाः। नन्वतिशयाश्चतुस्त्रिंशदेव ?, न; अनन्तातिशयत्वात्तस्य चतुस्त्रिंशत्सङ्ख्यानं बालावबोधाय ॥९॥
इति पञ्चमप्रातिहार्यस्तवस्यावचूर्णिः ।
वि०-हे केवलश्रीसनाथ ! नाथ ! तव सम्बन्धिनीमेतां पूर्वोपवर्णितस्वरूपां चमत्कारकरीमलौकिकाश्चर्यचर्याकारिणी प्रातिहार्यश्रियमशोकादिलक्षणां लक्ष्मीं दृष्ट्वा विलोक्य तावदासतां सुदृशः, किन्तु मिथ्यादृशोऽपि तत्त्वदर्शनं प्रति विपरीतदृष्टयोऽपि के नाम न चित्रीयन्ते ! नाश्चर्यमुद्वहन्ति !। इदमत्र हृदयम्-किल यद्यपि तेषामज्ञानोपहतत्वेन भगवतो यथावद्वीतरागतादिरहस्यानवबोधस्तथापि भुवनाद्भुतप्रातिहार्यदर्शनाद्विस्मेरविस्मयानाममन्दानन्दपीयूष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org