________________
पञ्चमः प्रकाशः ]
५९.
अनु० - हे नाथ! भ्रमरोना शब्दवडे जाणे गायन करतो होय, चञ्चल पांदडओवडे जाणे नृत्य करतो होय, तथा अपना गुणोवडे जाणे रक्त-रातो बन्यो होय, तेस आ अशोक (चैत्य) वृक्ष हर्ष पामे छे. (१)
सुरकृतातिशयै कोनविंशतिमध्ये चतुर्दश व्याख्याय शेषाः पञ्च प्रतिहार्यान्तर्भूता अतस्तान्येवाहु:
अव०- गाय०-हे वीतराग ! चैत्यपादपोऽशोको जिनतनुमानाद् द्वादशगुणस्कन्धो मोदते हृष्यतीव, अलिविरुतैः कुसुमसौरभलुभ्यद्भ्रमरस्वैर्गायन्निव चलैतान्दोलितैर्दलैः पत्रैर्नृत्यन्निव नाटकं कुर्वन्निव तव गुणैर्गुणरागैरिव रक्तः । एतानि हि प्रमोदलक्षणानि ।। १ ।।
0
"
वि० - किल त्रिविष्टपसदो विष्टपत्रयपतेः पूजार्थमष्टौ प्रातिहार्याणि सङ्घटयन्ति तेषु चाशोकतरुः पुरःसरः, स च जम्बूरिव जम्बूद्वीपस्य भवभयार्त्तसत्त्वशरणस्य मध्येऽर्हद्देहायामाद् द्वादशगुणायामः, परिमण्डलाकारेणायोजनं विष्वग् विस्तृतः समवसृति - लक्ष्मीलीलानीलातपत्रमिव व्यन्तरामरैर्विरच्यते । तमेवाह-हे समुद्धृतसंश्रितसत्त्वास्तोकशोक ! स्वामिंस्त्वदुपरि सुरविरचितोऽसावशोकपादपः कल्लितरुर्मोदते । कुतः ?, किलायमेव भगवांस्तावत्कषायतपनोपतप्तदुरन्तसंसृतिकान्तारपरिभ्रान्तिश्रान्तानां भव्यस त्त्वानामश्रमतरुर्यदि वाऽहमस्यापि क्षणमाश्रमद्रुम तामाकलयामि ततः किमितोऽप्यधिकं जगति प्रार्थयितव्यमित्युत्कर्षाद्धर्षप्रकर्षमुद्व.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org