________________
५८
[ श्रीवीतरागस्तोत्रे कोटिसङ्ख्याः कोटिमानास्त्वां सेवन्ते, हेतुमाह-भाग्य० पुण्यातिशये प्राप्ये पदार्थ मन्दा मूर्खा अपि नोदासते-नालस्यमादधते किम्पुननिसारासारविचारा विबुधा इति ॥१४॥
इति श्रीवीतरागस्तोत्रे चतुर्थप्रकाशावचूर्णिः ।
वि०-हे भुवनमहनीय!, यदि वा पवनानुकूल्यतरुप्रणामादिकं त्वयि कियदेतत् । यतः सुरासुरा ऊधिस्तिर्यग्लोकवासिनोऽपि त्वां सरभसं सेवन्ते । कियन्त इत्याह-कोटिसङ्ख्याः-कोटिपरिमिताः । कथं ?, जघन्यतः सामान्यतोऽपि; विशेषे तु कोटाकोटिप्रमिता अप्यमास्त्वामुपासते । अत्रैवार्थान्तरमाह-भाग्य० इत्यादि भाग्यसम्भारलभ्ये अगण्यपुण्यप्रचयप्राप्ये अर्थे प्रयोजने तावदासतामतिनिपुणमतयः, किन्तु मन्दाः स्वल्पमेधसोऽपि नोदासते। विरचितसुकृतसन्ततिप्राप्यं च भगवदुपासनमतस्तत्र भाविभूरिभद्रः क इवोदास्त इति। इति श्रीवीतरागस्तोत्रे सुरकृतातिशयवर्णनस्य चतुर्थप्रकाशस्य
पदयोजना।
एवं कतिचित्सुरकृतातिशयानभिधाय पुनः प्रातिहार्यरूपाँस्तानेवाभिधित्सुः पञ्चमप्रकाशं प्रस्तावयन्नाहगायन्निवालिविरुतै,-नृत्यन्निव चलैर्दलैः । त्वद्गुणैरिव रक्तोऽसौ, मोदते चैत्यपादपः ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org