________________
चतुर्थः प्रकाशः ] तास्तरवो वृक्षा मूर्ना-शिरसा नमन्ति, विहारावसरे एकेन्द्रियाणामपि भयरागादिसंज्ञावच्चमत्कारोऽपि सुसम्भवस्ततस्तेषां शिरः शिखरं कृतार्थ कृतकृत्यमस्ति, मिथ्यादृशां पुनः शिर:-शीर्थ व्यर्थमकार्यकरम् ।। १३ ॥
वि०-हे भुवनमूर्द्धन्य !, स्वामिन्नासतां विकस्वरविवेकाः सुरनरादयः, किन्तु मुकुलितविशिष्टचैतन्यास्तरवः पादपा अपि मूर्ना-उत्तमाङ्गेन प्रस्तावाद्भवन्तं नमन्ति-प्रणमन्ति उत्प्रेक्षते। तव सम्बन्धिना लोकोत्तरेण माहात्म्येन परमार्हन्त्यलक्षणेन चमत्कृता विस्मेरविस्मया इव । अतस्तेषामीषद्विवेकानामपि तत्रिभुवनप्रणते त्वयि प्रणतिपरं शिरः कृतार्थं नमस्यनमस्करणादेव कृतकृत्यम् , मिथ्यादृशां मिथ्यात्वमोहोपहतमतीनां पुनस्त्वय्युत्तानितशिरसां तन्द्यर्थं निरर्थकमेव, वनपादपेभ्योऽपि निर्विवेकास्ते मुधैव मस्तकशून्या भुवि भ्राम्यन्ति । जघन्यतः कोटिसङ्ख्यास्त्वां सेवन्ते सुरासुराः। भाग्यसम्भारलभ्येऽर्थे, न मन्दा अप्युदासते॥१४॥
अनु०-हे प्रभु! जघन्यथी एक क्रोड देवो अने असुरो आपनी सेवा करे छे, कारण के भाग्यना समूहथी प्राप्त थयेल पदार्थने विषे मन्द आत्माओ पण उदासीनता धारण करता नथी. (१४)
अव०-जघ०-हे वीतराग !, सुरासुरा जघन्यतोऽपि
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org