________________
| श्रीवीतरागस्तोत्रे
अव० - पश्चे० भवत्समीपे पञ्चेन्द्रियाणां सज्ञानानां मनुष्यादीनां दौः शील्यं दुष्टत्वं क्व भवेत् ?, न भवेदितियावद्यतः कारणादे केन्द्रियोऽप्यनिलो वातः प्रतिकूलतां मुञ्चति पृष्ठतः स्फुरणेन ॥ १२ ॥
५६
वि०- हे निर्मलन्यायनिलय !, भगवन् !, भवदन्तिके त्वदुपान्ते हेयोपादेय कृत्याकृत्यविचारविशेषपुष्यदृहृषीकपाटवानां पञ्चेन्द्रियाणां तिर्यग्नरामराणां दौः शील्यं - दुःशीलता प्रातिकूल्यं क भवेत् कथं जायेत । यद्यस्मादेकेन्द्रियत्वेनैव विशिष्टविचारविकलोऽनिलोऽपि प्रतिकूलतां सम्मुखापातित्वं मुञ्चति - परिहरति । किमुक्तं भवति - किल येन भगवत्प्रभावेणैकेन्द्रिया अपि विनयं ग्राह्यन्ते तस्य पञ्चेन्द्रियप्रातिकूल्यत्याजनं समीचीनमेव ।
तथा भगवति विहरति दिव्यप्रभावात्तरवः शिरो नमयन्तीत्येतदेव युक्त्या व्यनक्ति
मूर्ध्ना नमन्ति तरवस्त्वन्माहात्म्यचमत्कृताः । तत्कृतार्थं शिरस्तेषां व्यर्थं मिथ्यादृशां पुनः ॥ १३॥
"
अनु० - हे प्रभु! आपना माहात्म्यथी चमत्कार पामेला वृक्षो पण आपने मस्तकवडे नमस्कार करे छे. ते कारणे तेओना मस्तक कृतार्थ छे किन्तु आपने नहि नमनारा मिथ्यादृष्टिओना मस्तक व्यर्थ छे. (१३) अव० - मूर्ध्ना० हे वीतराग!, त्वन्माहात्म्य चमत्कृ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org