SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रकाशः ] __ अव०-जगत्प्र. हे जगत्प्रतीक्ष्य !, त्रैलोक्यपूज्य !, पक्षिणो जम्बूचापमयूराद्या अज्ञाना अपि प्रदक्षिणं दक्षिणावर्त यथा सुशकुनमित्यर्थः त्वाम् यान्ति; तेनेति गम्यं तेषां मानुष्यविवेकशास्त्रादिना महतां का गतिर्नरकगतानां तेषां निगमोऽसम्भाव्य इत्यर्थः । ते के ?, ये त्वयि वामवृत्तयः वामा प्रतिकूला वृत्तिर्वर्तनं येषां ते प्रतिपक्षा इत्यर्थः ॥११॥ वि०-हे जगतत्प्रतीक्ष्य !, भुवनमहनीय!, भवन्तमासतां सुरासुरनराः; किन्तु पक्षिणः-शकुना अपि प्रदक्षिणीकृत्य यान्ति-व्रजन्ति । ये तु पक्षिणामपेक्षया मनुष्यजन्मना स्पष्टेन्द्रियतया ज्ञानविज्ञानशालितया च महान्तोऽपि जगद्वत्सले त्वय्यपि वामवृत्तयः प्रतिकूलाचरणास्तेषां का गतिः । इदमत्रहृदयम्-किल नरकगतिम्तावत्सर्वजघन्या, परं तत्रापि गतानां त्वत्प्रातिकूल्यकारिणां तस्मादे. नसो मुक्तिरसम्भाव्या, न चान्या तदधिका दुर्गतिरस्तीत्यहो तेषा. मधमत्वम् । तथा भगवतो हि विहरतः पवनः पृष्ठप्रतिष्ठ एव सञ्चरतीत्येतदेव भङ्गयाऽभिदधातिपञ्चेन्द्रियाणां दौःशील्यं, क्व भवेद्भवदन्तिके । एकेन्द्रियोऽपि यन्मुञ्चत्यनिलः प्रतिकूलताम्॥१२॥ ___ अनु०-आपनी आगळ पञ्चेन्द्रियोनुं दुष्टपणुं तो होय ज क्याथी ?, कारण के एकेन्द्रिय एवो वायु पण आपनी आगळ प्रतिकूलपणानो त्याग करे छे. (१२) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003020
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
AuthorChandraprabhsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1949
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy