________________
५४
[ श्रीवीतरागस्तोत्रे अव०-सुग०-हे वीतराग ! भावित्वत्पादसंस्पर्शी भावी तव पादयोः स्पर्शी व्याख्याऽवसरे षड्घटिकावधि यस्यास्तां भुवं सुराः पूजयन्ति केन ?, सुग. सुरभिजलवर्षणेन, पुनः केन ?, दिव्य स्वस्तिकश्रीवत्सादिरचनाविशेषेण देवे रचितत्वादिव्यो यः पञ्चवर्णपुष्पप्रकरस्तेन, अतिशयद्वयम् ।
वि०-हे स्वामिन ! सुराः सुधाभुजस्तावदाम्ताममर्त्यपतिपूजितं भवन्तम् , यावद्भुवमपि पूजयन्त्यर्चयन्ति, केन ?, सुगन्धिनः सौरभ्यसम्भृतघ्राणपुटस्योदकस्य सलिलम्य वर्षणं वर्षः सेकस्तेन । तथा दिव्यानि मन्दारपारिजातादीनि पुष्पाणि सुमनांसि तदुत्करेण प्रकरेण । कां भुवमित्याह-भावित्वत्पादसंस्पर्शी भावी भविष्यस्त्वत्पादसंस्पशों यस्यां सा तथा । अयमाशयः-किल " यदध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षत ” इतिन्यायाद्भगवदध्यासिता भूस्तीर्थं तदर्चनीयैवेत्यहो ! त्रिदशानां भगवति भक्त्यतिशयः ।
तथा भगवन्तमवनौ विहरन्तं पक्षिणः प्रदक्षिणयन्तीत्येतदेव युक्त्या स्तुतिकृदाहजगत्प्रतीक्ष्य! त्वां यान्ति, पक्षिणोऽपि प्रदक्षिणम्। का गतिमहतां तेषां, त्वयि ये वामवृत्तयः? ॥११॥ __ अनु०-हे जगत्पूज्य ! पक्षिओ पण आपने प्रदक्षिणा आपे छे, तो पछी आपना प्रत्ये प्रतिकूळ वर्तन राखनारा मोटा गगाता एवा बापडा मनुष्योनी शी गति समजवी ? (११)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org