________________
चतुर्थः प्रकाश: ] कपुष्पसम्भवाद्वा। कुतः १, आकालमासंसारं तैः कृतं यत्कन्दर्पस्य भगवत्प्रतिपक्षस्य साहाय्यक साहाय्यं तेन यद्धयं तस्मादिव । श्लोकद्वयेन एकोऽतिशयः ॥९॥
वि०-हे विश्वोपास्य ! भगवन् ! त्वत्पादौ त्वचलननलिने ऋतवः सुरभिग्रीष्मवर्षाशरद्धेमन्तशिशिराख्याः सर्वे षडपि पर्युपासते-सेवन्ते । ननु ऋतुभिरवसरप्राप्तैर्जगदपि सेव्यत एव, किमधिकं स्वामिनः ?, इत्याह-युगपत्समकालम् । साम्प्रतमृतूपासने स्तुतिकृत् कारणमुद्भावयन्नाह-आकालेत्यादि। आकालमासंसारं कृतं निर्मितं भगवन्निग्राह्यस्य कन्दर्पस्य कामस्य यत्साहाय्यकं साहाय्यम् , उद्दीपनविभावा हि वसन्तादयः स्मरविकाराणामतस्तद्भयादिव । किमुक्तं भवति-किल न खलु भक्क्या भगवन्तमृतवः समुपासते, किन्तु यथानेन महामोहोन्माथिना सपदि मन्मथः प्रमथितस्तथा मा नामास्मानपि तद्गृह्यान्निग्रहीष्यतीति भीतभीता इव स्वस्वोचितप्रसूनदलफलपटलोपायनपाणयस्ते स्वामिनमुपासते ।
तथा यत्र किलार्हदवस्थानं भवति तत्र त्रिदशाः सुरभिसलिलं प्रसूनपटलं च मुञ्चन्तीत्येतदेव स्तुतिकृद्भङ्गयन्तरेणाहसुगन्ध्युदकवर्षेण, दिव्यपुष्पोकरेण च । भाविवत्पादसंस्पर्शा, पूजयन्ति भुवं सुराः॥१०॥ ___ अनु०-भविष्यमां आपना चरणनो स्पर्श थवानो छ एम जाणी ते भूमिने देवताओ सुगन्धि जलनी वृष्टिवडे पूजे छे. (१०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org