________________
५२
[ श्रीवीतरागस्तोत्रे
काशर्कराखर्जूरनालिकेरेक्षुसहकारनारङ्गकदलीदाडिमीफलादीनां परिणमन्ति, न पुनःपिचुमन्दघोषातक्यादीनाम् । तथा स्पर्शा अपि मृदुदुकूलपिहितशुचिहंसतूलीललितललनाङ्गावयवादयो, न पुनः खरशर्कराकठिनाश्मकण्टकादीनाम् । तथा गन्धा अपि धनसारागरुमृगमदमलयजमन्दारपारिजातकमलकुवलयचम्पकबकुलकनककेतकमालतीपाटलादीनामेव घ्राणपुटसन्तर्पणपटिष्ठा, न पुनम॒तकलेवरलशुनादीनाम् । एवममी पञ्चापि विषयाः स्वामिसन्निधौ प्रतिकूलतां त्यजन्ति । के इव ?, तार्किका इव । यथा-भगवद्गोचरोपगताः सौगतसाझ्यशैवमीमांसकलोकायताः (नैयायिकाः) पञ्चापि प्रामाणिकाः प्रतिहतप्रातिभत्वेन विगलन्मदाः प्रतिकूलतां मुञ्चन्ति, तद्वदेतेऽपीति भावः । त्वत्पादावृतवः सर्वे, युगपत्पर्युपासते । आकालकृतकन्दर्प-साहायकभयादिव ॥ ९ ॥
अनु०-अनादि कालथी कामदेवने करेली सहा. यना भयथी ज जाणे होय नहि तेम सघळी ऋतुओ एक साथे आवीने आपना चरणोनी सेवा करे छे. (९)
अव०-त्वत्पा०-हे वीतराग! त्वत्पादौ सर्वे वसन्ताद्या ऋतवो युगपदेकवारं पर्युपासते आश्रयन्ति, समवसरणस. मीपस्थवनेषु सर्वऋतुनां पुष्पफलसम्भवात् पुष्पप्रकरे सर्वतु
१ xxx सर्वतुकपुष्पसम्भवात् , इति प्रत्यन्तरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org