________________
चतुर्थः प्रकाश..] ___ अन्यच्च.... शब्दरूपरसस्पर्शगन्धाख्याः पञ्च गोचराः । भजन्ति प्रातिकूल्यं न, त्वदग्रे तार्किका इव ॥८॥ __ अनु०-आपनी आगळ बौद्ध, नैयायिकादि तार्किकोनी जेम शब्द, रूप, रस, स्पर्श: अने गन्धरूप पांचे इन्द्रियोना विषयो प्रतिकूलपणाने भजता नथी, किन्तु अनुकूळताने धारण करे छे. (८)
अव०-शब्द० हे वीतराग ! शब्दरूपरसस्पर्शगन्धाख्याः पञ्च गोचरा विषयास्त्वदग्रे तार्किका इव-बौद्धनैयायिकादय इव प्रातिकूल्यं-विपरीतभावं न भजन्ति ॥८॥
वि०-हे वागगोचरचरित्रपवित्र ! स्वामिन्नमी पञ्चापि गोचरास्त्वदने त्वत्सन्निधौ प्रातिकूल्यं प्रतिकूलतां न भजन्ति, प्रत्युतानुकूलतामेव श्रयन्ते । के त इत्याह-शब्दरूपरसस्पर्शगन्धाख्याः यथाक्रमं श्रोत्रनेत्ररसनस्पर्शनघ्राणादीन्द्रियविषयाः । किमुक्तं भवति-यत्र हि त्रिजगद्गुरुर्विहरति तत्र वेणुवीणामृदङ्गमधुरगीतध्वनिजयजीवनन्देतिप्रमुखाः सुखदा एव शब्दाः श्रुतिपथमवतरन्ति, न पुनः खरकरभकाकरवकरुणक्रन्दितादयः । तथा रूपाण्यपि रमणीयनरनारीनृपतिविभूतिदिव्यविमानप्रासादसफलारामपूर्णसरःपुष्करिणीप्रभृतीन्येव नयनगोचरमवतरन्ति, न पुनर्मलविलीनव्याधितमृतादीनि । तथा रसा अपि मृद्वी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org