________________
[ श्रीवी तरागस्तोत्रे ण्यपरोपाङ्गसम्भवानि, नखाः करचरणभवाः, श्मश्रु-कूर्चः समाहारद्वन्द्वः, तव केशरोमनखश्मश्रु अवस्थितं दीक्षाग्रहणा. वसरे यथा समारचितं भवति तत्तथैवावतिष्ठते-न वर्द्धत इत्यर्थः । इत्ययं बाह्योऽपि योगमहिमा परैस्तीर्थकरैर्हरिहरादिभिर्नाप्तः नासादितः। अन्तरङ्गस्तु सर्वाभिमुख्येत्यादिस्तवोक्तो दूरे ॥७॥ - वि०-हे अप्रमेयमहिमन् ! भगवन् ! परैरसर्वज्ञत्वेन त्वद्व्यतिरिक्तैः कुतीर्थकृद्धिरास्तां तावदाभ्यन्तरः सर्वाभिमुख्यतादिर्भामण्डलावसानः पूर्वोपवर्णितस्तव योगमहिमा, यावदयं बाह्योऽपि न प्राप्तः । अथ क इव ?, स इत्याह-केशरोमनखश्मश्रु तवावस्थितमिति । केशाः-शिरोरुहाः, रोमाण्यङ्गरुहाणि,नखाः करचरणाङ्गुलिप्रभवाः,श्मश्रु-कूर्चम् । एतच्च तवावस्थितं यावत्प्रमाणं सर्वविरतिप्रतिपत्तिप्रस्तावेऽवस्थापित तावन्मात्रमेव, न पुन,नाधिकम् । अयं चाध्यात्मैकदेशमात्रसाध्यस्वेन बाह्य एव योगमहिमा, किन्तु परैः प्रतिक्षणोपचीयमानापचीयमानकेशादिकदर्थितैर्न प्राप्तः । कुतः पुनरान्तरस्य त्वद्योगमहिम्नस्तेषां प्राप्तिसम्भावनैव । ननु यदि भगवतो योगमहिम्ना केशादीनां यथावदवस्थानं तत्किमस्यातिशयस्य सुरकृतातिशयेषु भणनम् ?, न पुनः कर्मक्षयजेषु ?; सत्यम् , न खलु भगवद्योगमहिम्ना केशादीनां यथावदवस्थितिः; किन्तु सर्वविरत्यवसरे पुरन्दरप्रेरितदम्भोलिविदलितोद्गतिशक्तीनां तेषामनुद्भव इति सुरकृत एवायमतिशयः । ननु यद्येवं तदा तवायमपि योगमहिमा परैर्नाप्त इति किमर्थं स्तुतिकृताभिदधे ?, उच्यते-यत्किल पौलोमीपतिः परमेशितुः किङ्कर इव केशादिव्यवस्थापनं विधत्ते स भगवत एव योगमहिमेति समञ्जसम् ।
Jain Education International
For Private & Personal Use Only
. www.jainelibrary.org