________________
चतुर्थः प्रकाशः ]
४९
। दृष्टान्तमाह । तिग्मरोचिषो वेस्तामसास्तमसां समूहा अन्धारकारिणो घूकादयो वा किं संमुखा भवेयुः ?, अपि तु न भवन्त्येव || ६ ||
वि०-हे मर्दितकषायकण्टक ! तव धात्र्यां सकलमङ्गलालिङ्गितायामिलायां संसारचारकगतान् भव्यसत्त्वान् उन्मोचयितुं विहरतः, कण्टका ग्रामराष्ट्रकाष्ठास्थिलोहादिमया जगतोऽपि निर्निमित्तमेव निर्मितव (त) रमात्मनो मर्मवेधदुः कृतमनुस्मृत्य विश्वजनीनस्य तव स्वं मुखं दर्शयितुमशक्ता इवाधोमुखाः प्रवेष्टुमिव पातालमवाङ्मुखाः स्युर्भवेयुः । अत्रैवार्थान्तरन्यासमाह - युक्तमेवैतत्तामसास्तमसां समूहास्तिग्मरोचिषः खररश्मेः संमुखीनाः किं कचि देशे काले वा भवेयुः ?, नैवेति भावः । किञ्च -
केशरोमनखश्मश्रु, तवावस्थितमित्ययम् । बाह्योऽपि योग महिमा, नाप्तस्तीर्थकरैः परैः ॥७॥
अनु० - आपना केश, रोम, नख अने इमश्रुदाढी मूछना वाळ अवस्थित - दीक्षा ग्रहण अवसरे जेटला होय छे तेटला ज रहे छे. आ प्रकारनो बाह्य पण योगनो महिमा हरिहरादि अन्य देवोए प्राप्त कर्यो नथी. (७)
अव० - केश० हे वीतराग ! केशाः शिरोरुहाः, रोमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org