________________
| श्रीवीतरागस्तोत्रे
नोवाक्काय लक्षणाद्रागद्वेषमोहरूपाद्वा त्रातुं रक्षितुं प्रवृत्ते, त्रयोऽपि वैमानिकज्योतिष्कभवनपतयस्त्रिदिवौकसो देवाः प्राकारत्रयं रत्नस्वर्णरूप्यमयं चक्रुः । दुर्गयोगेन हि रक्षा सुसाध्या ॥ ५ ॥
કેટ
वि०- हे जगच्छरण्य !, वैमानिकभुवनाधिपज्योतिः पतिरूपात्रयोsपि दिवौकसो देवास्त्वामनु प्राकारत्रितयं मणिस्वर्णरजतमयं विरचयाञ्चक्रुः । क्व सति ? त्वय्यतुलबलपराक्रमे भुवनत्रयीं स्वर्गमर्त्यपाताललक्षणां तत्स्थे तदुपचाराद्भुवनत्रयगतान् भव्यसत्त्वान् त्रातुं परिरक्षितुं प्रवृत्ते कृतोपक्रमे सति । कस्माद्दोषत्रयात्त्वद्विधादपरेणाजय्याद्वागद्वेषमोहरूपान्न चैकेन प्राकारेण बलवत्तरारातित्रयाक्रान्ता त्रिजगती युगपत्परित्रातुं शक्यते तत्किलैतदर्थमेव वप्रत्रयनिर्मितिरिति ॥ ५ ॥
तथा
अधोमुखाः कण्टकाः स्युर्धान्यां विहरतस्तव । भवेयुः सम्मुरवीनाः किं, तामसास्तिग्मरोचिषः ? | ६ |
अनु० - पृथ्वीतल पर आपे विहार कर्ये छते कण्टको कांटाओ अधोमुखवाळा थई जाय छे. सूर्य उदय पामे त्यारे घुवड अथवा अंधकारना समूह शुं टकी शके खरा ? (६)
अव० - अधो० हे वीतराग ! तव धात्र्यां पृथ्व्यां विहरतः, कण्टका दर्यादीनां दुर्जना अप्यधोमुखा - न्यग्मुखाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org