________________
चतुर्थः प्रकाशः ]
वि०- भुवनबान्धवे हि धर्मोपदेशनिमित्तमन्तसमवसरणममरकल्पितमलङ्कृत्य मृगेन्द्रासनमुपविष्टे प्राङमुखे दक्षिणापरोत्तरासु तिसृष्वपि दिक्षु तथास्थितेरेव विरचयन्ति व्यन्तरसुराः स्वामिप्रतिच्छन्दानि । इदमेव स्तुतिकृदुत्प्रेक्षते - हे भुवनस्वामिन्नहमेवं मन्ये, यद्भवानेतदर्थं चतुर्वक्त्रोऽभवत् । किमर्थमित्याह - आख्यातुं कथयितुम्, किं तद्धर्म्म प्रथमपुरुषार्थम् । किं विशिष्टं ? चतुर्विधं चतुष्प्रकारम् । चातुर्विध्यमेवाह - दानशीलतापोभावभेदाद् दानशीलतपोभावनारूपम् । नन्वेकरूपोऽपि भगवांश्चतुर्विधमपि धर्मं पर्यायेण प्ररूपयिष्यति किं चतुर्मुखत्वेनेत्याह - युगपत्समकालं एतचतुर्वक्त्रत्वमन्तरेण नोपपद्यत इति ॥ ४ ॥
साम्प्रतं भगवतः परमार्हन्त्यप्रभावप्रेरितैः सुरासुरैः या प्राकारत्रयरचना भक्तया विधीयते तस्या एव विधाने स्तुतिकृत्
कारणान्तरमुद्भावयन्नाह
४७
त्वयि दोषत्रयात् त्रातुं प्रवृत्ते भुवनत्रयीम् । प्राकारत्रितयं चक्रुस्त्रयोऽपि त्रिदिवौकसः ॥ ५ ॥
अनु० - न्रणे भुवनने रागद्वेष अने मोहरूप त्रणे दोषोथी बचाववाने माटे आप प्रवृत्त धये छते वैमानिक, ज्योतिषी अने भवनपति एम ऋण प्रकारना देवोए रत्नमय, सुवर्णमय अने रूप्यमय एम aण प्रकारना किल्लाओनी रचना करी छे. (५) अव० - त्वयि ० हे वीतराग ! त्वयि त्रैलोक्यं दोषत्रयान्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org