________________
[ श्रीवीतरागस्तोत्रे अव०-यत्र हे वीतराग ! यत्र तव पादौ पदं न्यासं धत्तः कुरुतस्तत्र सुरासुराः पङ्कजव्याजान्नवकनककमलच्छलतः पङ्कजवासिनीं श्रियं-लक्ष्मी किरन्ति-मुश्चन्ति ।। ३ ।।
वि०-तीर्थकृतो हि किल केवलोत्पत्तेश्चलनाभ्यामिलातलं न स्पृशन्ति । केवलममरगणोपक्लप्तेषु नवसु कनककमलेषु क्रमन्यासं विदधति। इदमेव स्तुतिकृद्भङ्गयन्तरेणाह-हे भगवन् ! यत्र-यस्मिन् प्रदेशे तव पादौ चरणौ पदमवस्थानं धत्तः कुरुतः तत्र सुरासुरा देवदानवाः श्रियं विकिरन्ति-विक्षिपन्ति । कामित्याह पङ्कजवासिनी नलिननिलयाम् । कस्मात् पङ्कजव्याजात् चामीकरारविन्दव्यपदेशात्। भवति च त्रिभुवनलक्ष्मीनिवासस्य भगवतश्चरणन्यासादवनेः सश्रीकतेति ॥ ३ ॥ अपरं चदानशीलतपोभावभेदाद्धर्म चतुर्विधम् । मन्ये युगपदाख्यातुं, चतुर्वक्त्रोऽभवद्भवान् ॥४॥
अनु०-दान, शील, तप अने भावना भेदथी चार प्रकारना धर्मने एक साथे कहेवा माटे ज होय नहि तेम आप चार मुखवाळा थया छो, एम हुँ मार्नु छु. (४)
अव०-दान हे वीतराग ! दानशीलतपोभावभेदाचतुविधं चतुष्प्रकारं धर्म युगपत्समकालमाख्यातुं भवाँश्चतुर्वक्त्रधतूरूपो बभूवेत्यहं मन्ये ॥ ४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org