________________
चतुर्थः प्रकाशः ]
अव०-एकोय. जगति त्रैलोक्य एकोऽयं वीतराग एव स्वामी धनिकस्त्रातेत्याख्यातुं-ज्ञापयितुं जम्भविद्विषा इन्द्रेणोचैरिन्द्रध्वजव्याजात सहस्रयोजनमानोच्चमहेन्द्रध्वजच्छलाद तर्जनी आद्याङ्गुल्युच्छ्रिता ऊर्वीकृतास्तीति गम्यते ॥ २ ॥
वि०-किल भगवतामहतां विहारादौ सदैव योजनसहस्रोच्छ्रितः कान्तकार्तस्वरदण्डाधारः सुरपथावतरदमरतरङ्गिणीप्रवाहपेशलः परिसरस्फुरदनेकदिव्यांशुकपताकापरिकरितः कणन्मणिकिङ्किणीगणारवमुखरिताशेषहरिन्मुखः सुरासुरैः पुरः सञ्चार्यमाणो महेन्द्रध्वजः प्रसर्पति, तमेव स्तुतिकृदुत्प्रेक्षते-किल नायमिन्द्रध्वजः किन्त्वस्य व्याजादियं जम्भारिणा तर्जनी समुच्छ्रिता । किमर्थं ?, आख्यातुं-कथयितुम् । किं तदित्याह-यदुतास्मिन् जगत्ययं प्रणयप्रणमदमरनरप्राग्रहरशिरःकिरीटप्रतीष्टशासनो भगवानहन्नेक स्वामी नान्यः। कथमुच्छ्रिता ?, उच्चैर्जगतोऽपि समक्षं भगवतस्त्वद्वितीयत्वेनेयमुत्प्रेक्षाऽपि स्वभावोक्तिरेवेति ॥ २॥ अन्यच्च
यत्र पादौ पदं धत्तस्तव तत्र सुरासुराः । किरन्ति पङ्कजव्याजाच्छ्रियं पङ्कजवासिनीम् ॥३॥
अनु०-ज्यां आपना बे चरणो स्थान धारण करे छे, त्यां देव अने दानवो सुवर्ण कमळना मिषथी कमळमां निवास करनारी लक्ष्मीने विस्तारे छे. (३)
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org