________________
[ श्रीवीतरागस्तोत्रे वि०-हे धर्मचक्रिस्तव धर्मदेशनसदनोपासीनस्य भव्यलोकानुग्रहाय महीं विहरतश्च पुरः पुरोभागे गगनगतं विचित्रारकराजिविराजितं प्रसृमरोल्बणतेजःपटलजटलितान्तारिक्षकुक्षिकुहरं प्रतिहतसमस्तविक्रान्तपरमतचक्रं धर्मचक्रमेधते । किं विशिष्टं ?,विभिन्नलिङ्गनिर्देशान्मिथ्यादृशां युगान्तार्कः । मिथ्या-तत्त्वार्थदर्शनं प्रति विपरीता, दृग्-विचारो येषां ते मिथ्यादृशः प्रथमगुणस्थानस्थास्तेषामत्यन्तदुरालोकत्वेन युगान्तार्कः प्रलयकालकरालमार्तण्डमण्डलप्रतिमः । तथा सुदृशाममृताञ्जनं सुष्टु शोभना तत्त्वार्थदर्शिनी दृग् येषां ते सुदृशस्तेषां श्रद्धानचक्षुःसविशेषनिर्मलीकरणेनामृताञ्जनं सुधाञ्जनमिव । तथा तिलकं तीर्थकृल्लक्ष्म्याः , तीर्थ चतुर्वर्णः सङ्घस्तत्कुर्वन्तीति तीर्थकृतस्तेषां लक्ष्मीः परमार्हन्त्यसम्पत्तस्याः सद्वृत्तत्वादिकलितत्वेन तिलकं भालभूषणमिव । एते च धर्मचक्रादयो वक्ष्यमाणातिशयास्तीर्थकृतां न सहभुवो नापि कर्मक्षयजाः किन्तु तत्प्रभावप्रेरितैस्त्रिदशैरेव विधीयन्ते इति ॥ १ ॥ तथा
एकोऽयमेव जगति, स्वामीत्याख्यातुमुच्छ्रिता । उच्चैरिन्द्रध्वजव्याजात्तर्जनी जम्भविद्विषा ॥२॥
अनु०-'जगतमां आ वीतराग ज एक स्वामी छे' एम कहेवाने माटे ईन्द्रे ऊंचा एवा ईन्द्रध्वजना व्हाने पोतानी तर्जनी आंगळी ऊंची करी न होय एम जणाय छे. (२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org