________________
[ श्रीवीतरागस्तोत्रे
मा च भूत्कोऽपि दुखितः । मुच्यतां जगदप्येषा, मतिमैत्री निगद्यते ॥१॥" इत्युक्तलक्षणा मैत्री तस्याः पवित्रपात्रायनिर्मलभाजनाय, मुदितः पुष्टो य आमोद-प्रमोदः, "अपास्ताशेषदोषाणां, वस्तुतत्वावलोकिनाम् । गुणेषु पक्षपातो यः, स प्रमोदः प्रकीर्तितः ॥ २॥" इत्युक्तलक्षणस्तेन शालिनेशोभमानाय, “दीनेष्वार्तेषु भीतेषु, याचमानेषु जीवितम् । प्रतीकारपरा बुद्धिः, कारुण्यमभिधीयते ॥३॥" ईदृशी कृपा कारुण्यं, “क्रूरकर्मसु निःशकं, देवतागुरुनिन्दिषु । आत्मशंसिषु योपेक्षा, तन्माध्यस्थ्यमुदीरितम् ॥ ४ ॥" एवंविधोपेक्षा माध्यस्थ्यमित्यर्थः, ताभ्यां कृत्वा प्रतीक्षाय पूज्याय, योगात्मने योगस्वरूपाय तुभ्यं नमोऽस्त्विति ॥१५।। इति श्रीवीतरागस्तोत्रे तृतीयस्य कर्मक्षयजातिशयवर्णनस्तव
स्यावचूर्णिः। वि०-हे भगवंस्तुभ्यमेवंविधाय नमोऽस्तु त्रिकरणशुद्ध्या त्वां प्रति प्रणतोऽस्मि । किं विशिष्टाय ?, मैत्रीपवित्रपात्राय, 'पापानि कोपि मा कार्षीदुखितः कोऽपि मा भूद् जगदपि दुष्कर्मभ्यो मुच्यताम् ' एवंविधा मतिमैत्री, तस्याः पवित्रपात्राय-पुण्याश्रयाय । तथा मुदितामोदशालिने, निरस्तसमस्तदोषाणां वस्तुतत्त्वावलोकतत्पराणां च गुणिनां गुणेषु यः प्रमोदः सा मुदिता तया मोदशालिने सदानन्दोपनिषण्णाय । तथा कृपोपेक्षाप्रतीक्षाय, दीनार्तभीतादिप्राणिगणप्रतीकारानुचिन्तनं कृपा, नास्तिकनिस्त्रिंशादिनिर्गुणजन
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org