________________
तृतीयः प्रकाशः ]
४१ अतस्तदाराधका यथाक्रममष्टत्र्येकर्जन्मभिः सिध्यन्ति । एतदुक्तं भवति-मन्दपरिणामेन ज्ञानाचाराधका अष्टभिर्जन्मभिः सिध्यन्ति, मध्यमपरिणामेन जन्मभिस्त्रिभिस्तीव्रपरिणामेनैकेन तेनैव भवेन सिध्यन्तीति क्रियासमभिहार इत्युक्तम् । अतस्त्वं स्वामिस्तीत्रशुभाध्यवसायसहचरितस्तथा कर्मक्षयोपाये सम्यग्ज्ञानाद्यासेवने प्रवृत्तिमकृथाः यथाऽक्षेपेणैव परां सर्वोत्कृष्टामनुत्तरसुरादिभिरपि प्रार्थनीयां श्रियं परमार्हन्त्यलक्षणामशिश्रियः प्राप्तवान् । किं कुर्वन् ? उपेयस्यानिच्छन्नपि, सम्यग्ज्ञानाद्यासेवनं युपायः, परमपदलाभस्तूपेयः । अतस्त्वं — समे मुक्खे भवे तहा ' इत्यादिश्रुतेरुपेयं परमपदमनिच्छनप्यप्रार्थयन्नपि कृतकृत्योऽभूरित्यहो तव फलोदयव्यवसायिता। ___ एवं च कर्मक्षयात् कृतकृत्यं परमात्मानं स्तुतिकृत्प्रणिनिनंसुराहमैत्रीपवित्रपात्राय, मुदितामोदशालिने । कृपोपेक्षाप्रतीक्षाय, तुभ्यं योगात्मने नमः ॥१५॥ ___अनु०-मैत्री भावनाना पवित्र पात्ररूप, प्रमोद भावनावडे सुशोभित, तथा करुणा अने माध्यस्थ्य भावनावडे पूजनीय योगात्मा-योगस्वरूप एवा आपने नमस्कार थाओ. (१५)
पूर्वोक्तस्य सर्वस्य रहस्यभृतं मैत्र्यादिचतुष्कं प्रकाशयन्त आहु:
अव०-मैत्री० हे वीतराग! "मा कार्षात्कोऽपि पापानि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org