SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ૩૮ [ श्रीवीतरागस्तोत्रे स एष योगसाम्राज्यमहिमा विश्वविश्रुतः । कर्मक्षयोत्थो भगवन्कस्य नाश्चर्यकारणम् ? ॥ १२ ॥ अनु० - हे भगवन् ! ते आ घातीकर्मना क्षयथी उत्पन्न थयेलो विश्वविख्यात - योगसाम्राज्यनो महिमा कोने आश्चर्य करनारो नथी ? ( १२ ) अव०- स एष० हे भगवन् ! स इति यच्छब्देन पुरा प्रतिपादित एष प्रत्यक्षलक्ष्यो योग० योगो ज्ञानादित्रयं तस्य साम्राज्यं सामस्त्यं तन्महिमा कस्य सचेतनस्याश्चर्यकारणं न स्यात् !, महिमा किं वि० १, कर्मक्षयोत्थः - घातिकर्मणां क्षयेनोत्पन्नः पुनः किं वि० १, विश्वविश्रुतः- त्रैलोक्य प्रसिद्धः ॥ १२ ॥ , वि०-हे भगवन् ! स एष पूर्वोपवर्णितस्तव योगसाम्राज्यमहिमा, योगो ज्ञानदर्शनचारित्र रूप रत्नत्रयसमवायः, स एव त्रिभुवनसनातनसम्पदुत्पादकत्वेन साम्राज्यमिव, तस्य महिमा स्फूर्जितं, कस्य नाम विचारचातुरीधुरीणस्य प्रेक्षापूर्वकारिणो नाश्चर्यकारणमलौकिकविस्मयहेतुः । न चायं स्वगृहकोणमात्रप्रवृत्त एव, किन्तु विश्वविश्रुतश्चराचरेऽपि जगति विख्यातः । कुतः पुनस्याप्रमेयस्य योगमहिम्नः समुत्थानमित्याह - कर्मक्षयोत्थः कर्मणां घातिकर्मणां क्षयेणात्यन्ताभावेनोत्थानं यस्य स तथा, न पुनः परपरिगृहीतस्य सदाशिवादेरिव सहभूस्तस्याप्रमाणिकत्वादिति । न चायमीषत्करः क्षयः कर्मणामित्युपदर्शयन्नाह ॥ ११ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003020
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
AuthorChandraprabhsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1949
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy