________________
तृतीयः प्रकाशः ] ए माटे ज जाणे होय नहि तेम सुरासुरोए आपना मस्तकनी पाछळ एक स्थाने भेगुं करेलं आपना शरीरनुं ज महा तेज जाणे न होय तेवू सूर्यना मंडळने पण जीती जनारं तेजनुं मंडळ-भामंडळ स्थापेलं छे. (११)
अव०-यन्मनः० हे वीतराग! यत्तव मनः शिरस: पश्चिमे भागे पृष्ठभागे उत्पिण्डितं पिण्डीकृत्य सुरैः स्थापितं महः शरीरतेजोऽस्ति, किं विशिष्टं ?, जित० जितं मार्तण्डमण्डलं सूर्यबिम्बं येन तत् ; उत्पिण्डितं कुत ?, इत्याह-मा भू० वपुस्तेजःपुञ्जपरीततया दुरालोकं दुर्लक्ष्यं मा भवतु इतीव इति हेतोः ॥११॥
वि०-हे सकलातिशायिमुनिजनमूर्धन्य ! यत्तव मूर्ध्नः पश्चिमे भागे उत्तमाङ्गमनु महसां पटलमुन्मीलति । किं विशिष्टं ?, जितमाण्डमण्डलं निजतेजस्तृणीकृतचण्डांशुमण्डलम् । भामण्डलं च भुवनभर्तुर्घातिकर्मक्षयसहचरितमपि स्तुतिकृदुत्प्रेक्षते । किल परिमितमयूखमालिनोऽप्यंशुमालिनो मण्डलं यथा दुरालोकं दुर्दर्श, तथा अनन्तविमलकेवलालोकनिलयस्य सकललोकलोचनस्पृहणीयस्य स्वामिनोऽपि वपुरचक्षुष्यं मा भूदिति सुरासुरादिभिरिदं मूर्धानमनु देहस्यैव महोमण्डलमुत्पिण्डितमेकत्र पिण्डीकृत्यावस्थापितमित्यहो तव योगसमृद्धरतिशयः । एवमतिशयानभिधाय प्रकृते योजयति ॥ ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org