________________
[ श्रीवीतरागस्तोत्रे अव०-यत्क्षी० हे वीतराग ! त्वयि क्षितौ पृथिव्यां विहरति यद् दुर्भिक्षं दुष्कालः क्षीयते कर्मका प्रयोगोऽयं, यत्वयि कथम्भृते ?, सर्वा० सर्वेऽद्भुता आश्चर्यकारिणो ये प्रभावास्तराढये-समृद्धे, पुनः किम्भूते ?,कल्पपादपे-कल्पवृक्षे, कथम्भूते ?, जङ्गमे लोकहिताय गमनागमनकृति ॥ १० ॥
वि०-हे जगत्प्रतीक्ष्य ! क्षितौ क्षोणिमण्डले गव्यूतिशतद्वयान्तर्यदशेषदुर्गतगणग्रसनराक्षसं दुर्लभा भिक्षाप्यत्रेति व्युत्पत्त्याऽन्विताभिख्यं दुर्भिक्षम् । क्षीयते सकलपरिग्रहपिण्डादिदुष्कृतैः सह क्षयमुपयाति । क सति ?, त्वयि विहरति विहारयोगाजगतीतलमलकुर्वाणे । किं विशेष्टे ?, कल्पपादपे-सुरभूरुहि । यद्येवं कथं तस्य विहारसम्भवः ?, इत्याह-जङ्गमे-गतागतकृति । पुनः किं विशिष्टे ?, सर्वाद्धृतप्रभावाव्ये सर्वेभ्योऽद्भतः-सद्भुतः । स चासौ प्रभावश्च तेनाढ्ये अदरिद्रे । एतदुक्तं भवति-किल स्थावरोऽपि कल्पविटपी तथाविधदेवतादिसन्निधानादर्थिसार्थमनोरथप्रथनेन प्रभावाढ्यो भवति, भगवतस्तु सकलैहिकामुष्मिकसुखलक्षसट्टनजङ्गमकल्पविटपिनः स्थाने सर्वाद्भुतप्रभावाढ्यत्वम् । समुचितश्च कल्पपादप्रचारपुरस्कृतायां भुवि दुर्भिक्षक्षय इत्यहो त्वद्योगोपनिषल्लीलायितम् । अपरञ्च ॥ १० ॥ यन्मूर्ध्नः पश्चिमे भागे, जितमार्तण्डमण्डलम् । मा भूद्वपुर्दुरालोकमितीवोत्पिण्डितं महः॥ ११ ॥
अनु०-आपनुं शरीर जोवामां अडचण न आवे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org