________________
तृतीयः प्रकाशः ]
अव०-स्वरा० हे वीतराग! त्वत्प्रभावात्तव महिमातः स्वरा० स्वचक्रपरचक्रेभ्यो जाता इति गम्यं, क्षुद्रोपद्रवाः क्षुद्राण्युच्चाटनमन्त्रादिकृतान्युपद्रवाः शस्त्रजलानलादिकृता ग्रामभङ्गाद्या यद् द्रुतं शीघ्रं विद्रवन्ति-नश्यन्ति इव, यथा सिंहनादाद् द्विपा गजेन्द्राः ॥९॥
वि०-यच्च सकलमङ्गलमूलनिलये त्वयि भव्यानुग्रहाय महीं भव्यानुग्रहाय महीं विहरति । योजनशतान्तः क्षुद्रोपद्रवाः स्थानअंशधनमित्रप्राणनाशादयो द्रुतमविलम्बितं विद्रवन्ति-त्रस्यन्ति । कुतः पुनस्तेषामुद्भव इत्याह-स्वराष्ट्रपरराष्ट्रेभ्यः स्वं च तद्राष्ट्रं च स्वराष्ट्रं तस्मादितरत्परराष्ट्रं तेभ्योऽयुक्तलोभसंक्षोभविलुप्तमर्यादेभ्यः स्वदेशाधिपतिभ्यो अतिबलाहकृतिचलितेभ्यः प्रतिबलभूपेभ्यश्च पदे पदे सुलभा एव क्षुद्रोपद्रवाः प्राणिनाम् । ते च त्वत्प्रभावात्तवाचिन्त्यमहिम्नो माहात्म्यात् सत्वरं विलीयन्ते । अत्रोपमामाहसिंहनादादिव द्विपाः यथा द्विपाः समदमदकलाः सिंहनादाद्विनिद्रपारीन्द्ररौद्रगुञ्जितात् क्षणादिशोदिशतामुपयान्ति तद्वदिति । न चैतदपि त्वद्योगसमृद्धेरपरस्य व्यवसितमिति । अन्यच्च ॥ ९ ॥ यत् क्षीयते च दुर्भिक्षं, क्षितौ विहरति त्वयि । सवाद्भुतप्रभावाढ्ये, जङ्गमे कल्पपादपे॥१०॥ ____ अनु०-सर्व प्रकारना अद्भुत-प्रभावशाली जंगमकल्पतरु समान आप क्षितितल उपर विहरे छते दुर्भिक्ष क्षय पामी जाय छे. ॥१०॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org