________________
[ श्रीवीतरागस्तोत्रे
अव०-सूचिकटाहनयेन वैरमारिद्वयं सुखसाध्यत्वादल्पदेशस्थितत्वाच्च प्रथमं निरस्य, शेषमीतिचतुष्टयक्षयमाहुः
काम० हे वीतराग ! त्वयि विश्वै० निष्कारणकरुणासरे लोकानां काम० मनोभीष्टदायिनि विजयिन्यतिवृष्टिअष्टेराधिक्यमवृष्टिरवर्षणं वोपतापकृत् सन्तापकारिणी यन्न भवेत् ॥ ८॥
वि०-यच्च विमलकेवलालोकभास्वति त्वयि स्वपादप्रचारेणाजनितलं पुनाने योजनशतान्तरतिवृष्टिर्मात्रातिक्रान्तवर्षणमकालवर्षणं बा, अनावृष्टिः कालेऽप्यवर्षणं, वाशब्दादरिष्टवृष्टिश्च न भवेन्न जायेत। के विशिष्टा ?, उपतापकृत् सस्यौषधिप्रबन्धविध्वंसकत्वेन विश्वसतापकारिणी। क सति !, त्वयि त्रिजगद्गुरौ लोकानां सत्त्वानां कामआणि कामानभिलाषान् वर्षतीत्येवंशीलः कामवर्षी तस्मिन् प्रणजिनमनःसङ्कल्पितार्थप्रथनपटीयसि । तथात्वे हेतुमाह-विश्चैकअल्सले जगतोऽप्यनुपकृतोपकारिणि । तदेतदतिवृष्ट्यादिस्खलनमपि बद्योगद्धिविलसितमेव । तथा ॥ ८॥ स्वराष्ट्र-परराष्ट्रेभ्यो, यत्क्षुद्रोपद्रवा द्रुतम् । विद्रवन्ति त्वत्प्रभावात् , सिंहनादादिव द्विपाः॥९॥
अनु०-सिंहनादथी जेम हाथीओ भागी जाय नेम स्वराष्ट्र-परराष्ट्रथी उत्पन्न थयेला क्षुद्र उपद्रवो आपना प्रभावथी तत्काळ भागी जाय छे. (९)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org