SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रकाशः ] ३३ भुवि भ्राम्यति प्रसरति सति, भुवनारयोऽनिष्टत्वेन जगद्वैरिरूपा मारयो दुष्टव्यन्तरशाकिन्यादिजनिता न सम्भवन्ति - नोत्पद्यन्ते । यतस्त्वत्प्रभावे किं विशिष्टे १, अशि० अशिवानामुपद्रवाणामुच्छेदो विनाशनं तत्र डिण्डिमे - पटहसदृशे । अन्योऽपि यचौरादिरुच्छेद्यते स पटहवादनेन सकललोकसमक्षं, विशेषणरूपो हेतुः ॥ ७ ॥ वि०- हे कृपापाथो (धे ! ) नाथ ! यच्चास्यां भुवि योजनशतान्तरमारयः क्रूरग्रहदुष्टभूतमुद्गलशाकिन्यामयादिजनितान्यकालमरणानि न सम्भवन्ति सम्भावनामात्रमपि तदीयं नोपपद्यते । किं विशिष्टा मारयो ?, भुवनारयः भुवनजननिर्निमित्तशत्रवः । क्व सति ?, तव जगद्विलक्षणाक्षीणशुभलक्षणखनेः प्रभावे माहात्म्ये भ्राम्यति निरङ्कुशं प्रसरति । कथम्भूते ?, अशिवोच्छेदडिण्डिमे अकल्याण निर्वासनपटुपटहे । अशिवरूपाश्च मारयः इत्ययमपि निरवग्रहस्तवैव योगसमृद्धिगरिमेति । अपरञ्च ॥ ७ ॥ कामवर्षिणि लोकानां त्वयि विश्वैकवत्सले । अतिवृष्टिरवृष्टिर्वा, भवेद्यन्नोपतापकृत् ॥ ८ ॥ अनु० - लोकोना कामितने वर्षावनार विश्वने उपतापने विषे अद्वितीय वत्सल एवा आप विद्यमान छते अतिवृष्टि के अनावृष्टि थती नथी. ( ८ ) ३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003020
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
AuthorChandraprabhsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1949
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy