________________
[ श्रीवीतरागस्तोत्रे
वि०- यच्चास्मिन् भुवस्तले त्वयि विहरति योजनशतान्तवैराग्निः प्रशाम्यति । वैरं - विरोधः स एव स्वपरयोरुपतापकारित्वेनाग्निरिवाग्निः, किंविशिष्टः ?, स्त्रीक्षेत्रपद्रादिभवः, स्त्रियः कामिन्यः, क्षेत्राणि सस्योत्पत्तिभूमयः, पद्राणि ग्रामनगरादीनां सन्निवेशवसुमत्यः, आदिशब्दात् कौटुम्बिकादिपरिग्रहः, एभ्यो भव उत्पत्तिर्यस्य स तथा । भवत्येव स्त्रीप्रभृतिभ्यो रामरावणपाण्डव कौरवादीनामिव कुलोच्छित्तिनिबन्धनो वैरानुबन्धः तथा चैवंविधोऽपि प्रशाम्यति । प्रशमहेतुमाह - त्वत्कृपेत्यादि, तव सम्बन्धिनी कृपा त्वत्कृपा सर्वसत्त्वसाधारणी कारणनिरपेक्षा करुणा सैव जगज्जन्तुजातजीवातुत्वेन पुष्करावर्त्त इव, तस्य वर्षणं वर्षस्तस्मादिव । इदमत्र हृदयम्-किल काष्ठादिसङ्घर्षसमुद्भवो ह्यग्निः सामान्यपर्जन्यधारासारमात्रेणैवोपशाम्यति, अस्य च दुर्धरवैरानुबन्धधनञ्जयस्य त्वत्कृपापुष्करावर्त्तादृते क इवान्यः प्रशमोपाय इति । यचैतदेवं स तवैव योगसम्पत्परभागः । अन्यच्च
३२
त्वत्प्रभावे भुवि भ्राम्यत्यशिवोच्छेद डिण्डिमे । सम्भवन्ति न यन्नाथ ?, मारयो भुवनारयः ॥ ७॥
अनु० - हे नाथ! अशिवनो उच्छेद करवाने डिंडिमनाद समान आपनो प्रभाव भूमि उपर फैलाये छते भुवनना दुश्मनभूत मारी- मरकी विगेरे उपद्रवो उत्पन्न थता नथी. (७)
अव०-त्वत्प्र० हे नाथ ! यच्चत्प्रभावेऽचिन्तितमाहात्म्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org