________________
तृतीयः प्रकाशः ] शलभाः; शुक्रास्तिस्र ईतयो भुमो भुवि नाविर्भवन्ति-न प्रकटीभवन्ति इव यथाऽनीतयोऽन्यायाः क्षितिपक्षिप्ता राज्ञा निरस्ताः क्षणेन वेगेन दूरीभवन्ति ।। ५॥
वि०-साग्रेऽपि योजनशते इत्यनुवर्तते। यच्चैतावति क्षेत्रे त्वयि विहरति भूमावीतयो नाविर्भवन्ति-न प्रादुर्भवन्ति । किंरूपा इत्याहमुषकाः शलभाः शुकाः मूषकशलभशुकरूपाः सकलसस्यसम्पद्विलोपनप्रवणाः । का इव ?, अनीतय इव । यथा क्षितिपेन धर्मविजयिना राज्ञा क्षणेनोत्पत्तिसमनन्तरमेव क्षिप्ताः पर्यस्ता अनीतयोऽधर्माचरणानि भूमौ नाविर्भवन्ति तद्वद्भुवनबान्धवविहारादीतय इत्यहो त्वद्योगगरिमा। स्त्रीक्षेत्रपद्रादिभवो, यद्वैराग्निः प्रशाम्यति । त्वत्कृपापुष्करावर्त्तवर्षादिव भुवस्तले ॥ ६ ॥
अनु०-आपनी कृपारूपी पुष्करावर्तना मेघनी वृष्टिथीज जाणे नहि तेम ज्यां आप चरण धरो छो त्यां स्त्री, क्षेत्र अने नगरादिथी उत्पन्न थयेलो वैररूपी अग्नि शमी जाय छे. (६)
अव०-स्त्रीक्षे० हे वीतराग ! यत् स्त्रीक्षेत्रपद्रादिभवो वैराग्निर्वैरदहनो भुवस्तले प्रशाम्यति, इवोत्प्रेक्षायाम् । त्वत्कृपा० तव कृपारूपपुष्करावर्तः सर्वोत्कृष्टो मेघविशेषस्तद्वदृिष्टेरिव ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org