SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ [ श्रीवीतरागस्तोत्रे तिर्यञ्चो गजादयः, नरा नरेन्द्रादयः,सुराः-सुरेन्द्रादयः,सपरिच्छदा:-सपरिवाराः कोटिशः-बहुकोटिमिताः संमान्ति-बाधारहितमुपविशन्ति ।। २ ॥ वि०-धर्मः सर्वदेशसंयमलक्षणो दशद्वादशभेदः सम्यग् दिश्यते यत्र तद्धर्मदेशनसद्म । तच्च भगवतः सुरासुरजनितं त्रिभुवनाभरणं समवसरणमेव, तस्मिंश्च यत्तिर्यग्नरामरा युगपत्सम्मान्ति परस्पराबाधेन सुखं निषीदन्ति, यदि पुनस्ते स्वल्पा एव भविष्यन्तीत्याह-कोटिशः कोटिसङ्ख्याः । तावन्तोऽपि कदाचिंदेहमात्रसहाया एव स्युरित्याह । सपरिच्छदाः-सपरिवाराः-स्वस्वपरिवारोपेताः, तर्हि देशनासझ योजनशतादिविस्तीर्णं भविष्यतीत्याह । योजनप्रमाणेऽपि गव्यूतिद्वयमात्रविस्तारेऽपि यच्चैतावत्यपि क्षेत्रे कोटिसङ्ख्याः सपरिवाराश्च तिर्यग्नरामरा युगपन्निराबाधं सम्मान्ति । स सकलोऽपि तवैव योगसमृद्धिसमुदय इति । किञ्चतेषामेव स्वस्वभाषापरिणाममनोहरम् । अप्येकरूपं वचनं, यत्ते धर्मावबोधकृत् ॥ ३॥ अनु०-पोतपोतानी भाषामां परिणाम पामी जवायाळ होवाथी मनोहर एवं एक सरखं पण आपनुं वचन तेओने धर्मनो अवबोध करनाऊं थाय छे. (३) अव०-तेषां० हे वीतराग! यत्ते तवैकरूपमप्येकश एकभाषया उक्तमपि वचनं, तेषां त्रयाणां तिर्यग्नदेवानामेव, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003020
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
AuthorChandraprabhsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1949
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy