SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रकाशः ] वि०- हे प्रणयप्रणमदमरनाथ नाथ ! यदेतदेतद्वक्तुमुपक्रान्तं स एष सकलोऽपि तवैव योगसाम्राज्य महिमेति कुलकप्रान्त्येन श्लोकेन सम्बन्धः । किं तदित्याह - यत्त्वं सर्वथा सम्मुखीनो विष्वगुविसु - त्वरेण केवलालोकरोचिषा सर्वतोमुखस्तिर्यग्नरामरादिलक्षणाः प्रजाः प्रतिक्षणमानन्दयसि - परमानन्दमेदुरान्तः करणाः करोषि । कुतः पुनरिदं सर्वतोमुखत्वं प्रभोरित्याह- तीर्थकृन्नामकर्मजात् परमार्हन्त्यसहचरितात् सर्वाभिमुख्यतः - सर्वाभिमुख्यत्वातिशयात् । अयमाशयः - किल सुप्रभूणां स्वाभिमुख्यमगण्यपुण्यप्राप्यं तच्च तथाविधशुभसम्भारवशोद्भवमपि द्वित्राणां पञ्चषाणां वा भवति । त्वं तु युगपत्कोटिसंख्या अपि तिर्यग्नरामरादिकाः पितेव स्वाः प्रजाः समदृष्ट्या शश्वदानन्दयसीत्यहो तव योगसाम्राज्यमहिमेति । अत्र च केचित्सर्वाभिमुख्यतां भगवतो देशनावसर चतुर्मुखतामाहुस्तस्याश्च सुरकृतत्वेन सुरकृतातिशयेषु पुरस्ताद्भणिष्यमाणत्वात् कर्मक्षयजातिशयेष्वमीषु भणनं न सङ्गतिमङ्गति । तथा 1 VÍ VA यद्योजनप्रमाणेऽपि, धर्मदेशन सद्मनि । संमान्ति कोटिशस्तिर्यग्नृदेवाः सपरिच्छदाः ॥२॥ अनु० एक योजन प्रमाण एवी पण धर्मदेशनानी भूमिने विषे पोतपोताना परिवार सहित क्रोडो तिर्यंच, मनुष्य अने देवताओ समाई जाय छे. (२) Jain Education International २७ अव० यद्यो० हे वीतराग ! यद्योजनप्रमाणेऽपि चतुर्गव्यूतमात्रेऽपि धर्मदेशनसद्मनि समवसरणे तिर्यग्नृदेवाः For Private & Personal Use Only www.jainelibrary.org
SR No.003020
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
AuthorChandraprabhsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1949
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy