________________
२६
| श्रीवीतरागस्तोत्रे
एवं स्तुतिकृत् स्वामिनः सहजातिशयानभिधाय साम्प्रतं तस्यैव सर्वविरतिप्रतिपत्तेरनन्तरं तीव्रतरतपः पवनप्रवृद्धदुर्द्धरशुक्लध्यानधनजयभस्मीकृताशेषघातिकर्मेन्धनस्य सद्यः समुद्भूतानेकादशातिशयांस्तृतीयप्रकाशेनाह
सर्वाभिमुख्यतो नाथ !, तीर्थकृन्नामकर्मजात् । सर्वथा सम्मुखीनस्त्वमानन्दयसि यत्प्रजाः ॥ १ ॥
अनु० हे नाथ ! जे कारण माटे तीर्थंकरनामकर्म जनित ' सर्वाभिमुख्य ' नामना अतिशयथी, केवळज्ञानना प्रकाशवडे सर्वथा सर्व दिशाए सन्मुख रहेला एवा आप देव मनुष्यादि सर्व प्रजाने सर्व प्रकारे आनंद पमाडो छो. ( १ )
अव० कर्मक्षयजातिशयान् विशेषयन्त आहुः - सर्वा० हे नाथ तीर्थ कृन्नामकर्मजात् नामकर्मण एकाशीतितमभेदात्तीर्थकरनामकर्मणो जातात् सर्वाभिमुख्यतः सर्वतः सर्वासु दिक्षु सम्मुखत्वात् परमार्हन्त्यपदवी सहचरितात् सर्वाभिमुख्यतातिशयात् सर्वथा सम्मुखीनः केवलालोकरोचिषापि सर्वतोमुखस्त्वं प्रजा नरामरादिका यदानन्दयसि - प्रीणयसि । तीर्थङ्करा हि सर्वतः सम्मुखा एव न तु पराङ्मुखाः क्वापि, यदिति वक्तुमुपक्रान्त एकादशश्लोकैः स एष सर्वोऽपि तवैव योगसाम्राज्यमहिमेति द्वादशश्लोके सम्बन्धः ॥ १ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org