________________
[ श्रीवीतरागस्तोत्रे अव०-द्वितीयं दर्शयन्ति-न के० हे वीतराग ! केवलमेकं तव मनश्चित्तं रागमुक्तं रागेण संसारमूर्च्छया रहितं नास्ति, वपुःस्थितं रक्तमपि रुधिरमपि क्षीरधारासहोदरं दुग्धधाराधवलं रागमुक्तमित्यर्थः ॥ ५॥
वि०-हे वीतराग ! भगवंस्तव 'वीतराग' इत्यन्वर्थेन नाम्नव यशःपटहघोषेण च सर्वत्र निरङ्कुशं प्रसर्पता मनसो गतरागत्वं सुप्रसिद्धगेव, केवलं न खलु तव मनोऽन्तःकरणमेव रागमुक्तं विषयाभिष्वङ्गरहितं, किन्तु वपुःस्थितं देहान्तर्गतं रक्तं शोणितमपि रागमुक्तं लौहित्योज्झितमत एव क्षीरधारासहोदरं मुग्धदुग्धप्लव . प्रतिमम् । इयमत्र भावना-सहजातिशयमहिम्नैव भगवद्वपुषि क्षीरधाराधवलं शोणितं, परं रागनिग्रहाग्रहिणं विगणय्येव भगवन्तमन्तश्चकितेनेव किल रक्तेन रागस्तत्यज इति । किञ्चजगद्विलक्षणं किं वा, तवान्यद्वक्तुमाश्महे ? । यदवित्रमबीभत्सं, शुभ्रं मांसमपि प्रभो ! ॥६॥
अनु०-अथवा हे प्रभो ! जगतथी विलक्षण एवं आपन बीजं केटलं वर्णन करवा अमे समर्थ थई शकीए ?, कारण के आपनुं मांस पण दुर्गन्ध विनानु, तथा दुगंच्छा विनानुं उज्ज्वल छे. (६)
अव०-जग० हे वीतराग ! वाऽथवा तव जगद्विलक्षणं जगतः सुरनरादेर्विसदृशं अन्यत्प्राकारत्रयच्छत्रचामरेन्द्रध्व
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org