________________
२१
द्वितीय प्रकाशः ] कुतः श्रमसाध्वसादेः स्यादित्यध्याहार्यमिति प्रथमातिशयश्चतुर्भिः श्लोकैः ॥ ४॥
वि०-हे भगवंस्त्वद्वपुषस्तवातुल्यकल्याणगेहस्य देहस्य क्षरस्वेदविलीनत्वकथापि कुतः । तथाविधतरणितापादिसम्पर्कतः क्षरस्यन्दमानो यः स्वेदो धर्मजलं तस्माद्विलीत्वं पिच्छिलत्वं तस्यास्तां तावदनुभवः कथापि वार्तापि कुतः सर्वथैवासम्भविनीत्यर्थः । कथम्भूते त्वयीत्याह । आदर्शतलालीनप्रतिमाप्रतिरूपके, आदर्शो दर्पणस्तस्य तलं मध्यं तस्मिन्नालीना प्रतिबिम्बिता या प्रतिमा देहप्रतिच्छन्दस्तत्प्रतिरूपके तदनुकारिणि । किमुक्तं भवति-यथा मुकुरसङ्क्रान्तस्य रूपस्य भीष्मग्रीष्मोष्मादिसानिध्येऽपि स्वेदविलीनत्वं न स्यादेवं निसर्गत एव भगवदङ्ग इति । एवं च प्रियङ्गुस्फटिकेत्यादिना निरुपचरिताद्भुतरूपत्वं, मन्दारदामेत्यनेन स्वभावसुरभित्वं, दिव्यामृतेत्यनेन निसर्गनीरोगत्वं, त्वय्यादशेत्यनेन स्वाभाविक स्वेदमलोन्मुक्तत्वमभिदधानेन स्तुतिकृता श्लोकचतुष्टयेन भगवतः सहजातिशयेषु प्रथमो देहातिशयः प्रोक्तः । साम्प्रतं श्लोकद्वयेन द्वितीयं सहजातिशयमाहन केवलं रागमुक्तं, वीतराग ! मनस्तव । वपुःस्थितं रक्तमपि, क्षीरधारासहोदरम् ॥ ५ ॥ ___ अनु०-हे वीतराग! केवल आपनु मन रागरहित छे ?, एम नथी; आपना शरीरमा रहेलु रुधिर पण (रागना अभावथी) दूधनी धारा जेवू उज्ज्वल छे.(५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org