________________
[ श्रीवीतरागस्तोत्रे
वजा न समाविशन्ति । तत्र रोगा राजयक्ष्मादयस्त एव निर्झरभयहेतुत्वेन दुर्वारदारुणवेदनोत्पादकत्वेन च उरगा इव उरगास्तेषां व्रजाः समूहा अष्टोत्तरशतसङ्ख्यत्वादामयानामतस्ते तवाङ्गे तव वपुषि न समाविशन्ति-न प्रविशन्ति । किं विशिष्टा इव दिव्येत्यादि दिव्योऽ. मानवो योऽसावमृतरसः पीयूषद्रवस्तस्यास्वादः पानं तस्मात् पोषः सौहित्यं तेन प्रतिहता इव गलहस्तिता इव । इदमत्र हृदयम्-तथास्वभावादेव तावद् भगवतामहतामङ्गान्यशेषव्याधिवैधुर्यवर्जितान्येव स्युरेवं च स्थिते स्तुतिकृदुत्प्रेक्षते । किल बाल्ये जननीस्तन्यपानानधिकारित्वेन यत्तेषां कराङ्गुष्ठे अमर्त्यपतयः पीयूषरसं सञ्चारयन्ति । तत्पानप्रतिहता इव न तदङ्गे रोगभुजङ्गमाः समाविशन्ति । समुचितश्चामृतपानादामयाशीविषविकारविश्लेष इति । तथात्वय्यादर्शतलालीनप्रतिमाप्रतिरूपके । क्षरत्स्वेदविलीनत्वकथाऽपि वपुषः कुतः ? ॥४॥
अनु० दर्पणना तलनी अंदर प्रतिबिंबित थयेला प्रतिबिंबनी जेम स्वच्छ एवा आपने विषे शरीरथी झरता परसेवाथी पींगळीजवापणानी कथा ज क्यांथी होय ? (४)
अव०-त्वय्या० त्वयि आदर्शतलालीनप्रतिमाप्रतिरूपके दर्पणतलप्रतिबिम्बितरूपसदृशेऽपरं मलादि दूरे, क्षरत्स्वेदविलीनत्वकथा स्रवत्स्वेदक्लिन्नत्ववार्तापि वपुषश्शरीरस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org