________________
द्वितीयः प्रकाशः ] धारयन्ति । कथम्भूते ? नित्यमवासितसुगन्धिनि घनसारागरुमृगमदमलयजादिगन्धद्रव्यैरवासितेऽपि स्वभावसुरभिण्यत एव नित्यपदोपादानम् । उपाधिजनितो हि वासः कतिपयकालकलावसाने विलीयत एव, भगवदङ्गं तु निसर्गतः सौरभ्यसुभगम् । अत्रोपमामाह-मन्दारदामवद् अङ्गे कस्मिन्निव मन्दारदामनीव । एतदुक्तं भवति-यथा सुरतरुसुमनःस्रजि पुष्पन्धयधोरणयः संसज्यन्ते एवमर्हच्छरीरे सुरसीमन्तिनीनयनानि । अमररमणीनयनक्षोभभणनाच्च मर्त्यपातालललनालोचनक्षोभः सामर्थ्यलभ्य एव भगवद्देह इति । किञ्चदिव्यामृतरसास्वादपोषप्रतिहता इव । समाविशन्ति ते नाथ! नाङ्गे रोगोरगव्रजाः ॥३॥
अनु०-हे नाथ! दिव्य अमृतरसना आस्वादनी पुष्टिथी जाणे पराभव पाम्या न होय तेम कासश्वासादिक रोगरूपी सर्पना समूहो आपना शरीरने विषे प्रवेश पामता नथी. (३)
अव०-दिव्या० हे नाथ ! ते तवाङ्गे देहे रोगाः कासश्वासादयस्त एवोरगाः सर्पास्तेषां व्रजाः-समूहाः न समाविशन्ति -नोपद्रवन्ति, यतः किम्भूता दिव्या० बाल्ये देवैरङ्गुष्ठेऽमृतं सञ्चारितं दिव्यममृतं तस्य रसस्तस्यास्वादस्तेन पोषो वर्द्धनं तेन प्रतिहताः पराङ्मुखीकृता इव, इवोपमायाम् ॥ ३ ॥
वि०-हे विहितदुन्तिमन्मथप्रमाथ नाथ ! तवाङ्गे रोगोरग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org