SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ [ श्रीवीतरागस्तोत्रे पद्मरागाञ्जनप्रभः, प्रियङ्गुश्च स्फटिकं च स्वर्णं च पद्मरागश्चाञ्जनं चेत्यादिद्वन्द्वः । तत्र प्रियङ्गुः फलिनीलता, स्फटिकं रवीन्दुकान्तम् , स्वर्ण चाभीकरम्, पद्मरागः शोणमणिः, अञ्जनं कजलं; तस्येव प्रभा यस्य स तथा । भवन्ति हि तथाविधनामकर्मवैचित्र्याद्भगवतामहंतामङ्गेषु यञ्चापि वर्णास्ततः सर्वेषामुपादानम् । पुनः किंविशिष्टः ?, अधौतशुचिरप्रक्षालितनिर्मलः, किल सलिलादिप्रक्षालनेनाशुचीन्यपि वपूंषि क्षणमालोक(कल)यन्ति शुचिताम् । भगवतस्त्वङ्गे निसर्गसिद्ध नैर्मल्यम् । एवंविधश्च कायः कस्य नाम न लोचनलोभनं विदध्यादिति । मन्दारदामवन्नित्यमवासितसुगन्धिनि । तवाङ्गे भृङ्गतां यान्ति, नेत्राणि सुरयोषिताम् ॥२॥ अनु०-कल्पतरुना पुष्पोनी मालानी जेम स्वभावथी ज सुगन्धि एवा आपना शरीरने विषे देवांगनाओनां नेत्रो भ्रमरपणाने पामे छे. (२) अव०-मन्दार० हे वीतराग! मन्दारदामवत् कल्पद्रुमपुष्पमालावन्नित्यं सर्वदापि अथवाऽकृत्रिमपरिमलकलिते तवाङ्गे शरीरे सुरयोषितां देवाङ्गनानां नेत्राणि-नयनानि भृङ्गतांभ्रमरभावं यान्ति-श्रयन्ति । "स्त्रीणामक्ष्णां कटाक्षाणां शुक्लता श्यामताऽथवेति " वचनामृङ्गतारोपणम् ॥ २॥ वि०-हे भुवनभूषण प्रभो ! तबाङ्गे सुरयोषितां नेत्राणि भृङ्गतां यान्ति त्वच्छरीरेऽमरकुरङ्गलोचनालोचनानि भ्रमरविभ्रमं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003020
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
AuthorChandraprabhsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1949
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy