________________
द्वितीयः प्रकाशः ]
प्रियङ्गुस्फटिकस्वर्णपद्मरागाञ्जनप्रभः । प्रभो ! तवाधौतशुचिः कायः कमिव नाक्षिपेत् ॥१॥
अनु० - हे प्रभो! प्रियंगुनी जेम नील, स्फटिकनी जेम उज्ज्वल, स्वर्णनी जेम पीळो, पद्मरागनी जेम रातो अने अंजननी जेम श्याम कान्तिवाळो अने धोया विनाज पवित्र एवो आपनो देह कोने आश्चर्यचकित न करे ? ( १ )
१७
अव० - अथ सहजातिशयचतुष्टयं व्यावर्णयन्ति - प्रिय० हे प्रभो ! तव कायो देहोऽधौतशुचिरक्षालित पवित्रः, कं सुरनरादिकं नाक्षिपेत्, नोत्कण्ठितं कुर्यात्, अपितु सर्वमपि, sarsaधारणे, किम्भूतः काय: १, प्रियङ्गुर्नीलवर्णो वृक्षः, स्फटिकस्वर्णे प्रतीते, पद्मरागो रक्तमणिः, अञ्जनं कज्जलम् : तद्वत्प्रभा कान्तिर्यस्य स तथा । यतः " पउमाभवासु पुजा० १, वरकणय० २" इत्यादि, पञ्चपरमेष्ठिरूपतया वा वीतरागदेहस्य पञ्चवर्णत्वम् ॥ १ ॥
वि०- हे प्रभो ! विश्वस्वामिन्नासतां तावत्तव शरीरस्था शरच्छशधर करनिकरानुकारिणो गुणात्रिजगद्विलक्षणार्ह लक्षणापास्तसमस्तप्रत्यवायः कायोऽपि कमिव नाक्षिपेत् ! अविज्ञाततत्त्वस्यापि प्रथममक्षिसंनिपातेनैव कस्य नाम नाद्भुतरसवासितमन्तःकरणं कुर्यादपितु सर्वस्यापि विदध्यादेव । किं विशिष्टः ?, पियङ्कुस्फटिकस्वर्ण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org