________________
[ श्रीवीतरागस्तोत्रे रान्तःकरणस्य वाग्वृत्तिर्वचनपद्धतिर्विशृङ्खलापि पूर्वापरसम्बन्धविसंवादविसंस्थुलापि भक्तिव्यक्तरेकात्मतया शोभते बालालापचापलमिव कौतुकं च जनयतीति समञ्जसम् । इति श्रीवीतरागस्तोत्रे प्रथमस्य प्रस्तावनास्तवस्य पदयोजना । श्रीहेमचन्द्रप्रभवाद्वीतरागस्तवादितः । कुमारपालभूपालः प्राप्नोतु फलमीप्सितम् ॥९॥
श्री हेमचंद्रसूरिए रचेला आ श्रीवीतरागस्तवथी श्रीकुमारपाल-भूपाल श्रद्धा-विशुद्धिलक्षण अनं कर्मक्षय लक्षण इच्छित फलने प्राप्त करो. (९) __आयुक्तसम्बन्धं सूचयन्तः प्रोचुः-श्रीहेम० इतः प्रस्तुतात् श्रीहेमचन्द्रविरचिताद्वीतरागस्तवात् कुमारपालभूपाल ईप्सितं दर्शनविशुद्धिलक्षणं फलं कर्मक्षयमित्यर्थः । प्रामोतु-समासादयतु ।। ९ ।।
इति प्रथमप्रकाशाऽवचूर्णिः ॥
साम्प्रतं स्तुतिकृत्प्रस्तावनास्तवोपवर्णितस्य परमात्मनो भावाहल्लक्षणां प्रागवस्थामधिकृत्य चतुस्त्रिंशदतिशयान् प्रकाशचतुष्टयेन बिभणिषुर्द्वितीयप्रकाशे चतुरः सहजातिशयान् प्रस्तावयन्नादौ सकलनरशरीरविलक्षणं भगवतः शरीरातिशयं श्लोकचतुष्टयेनाह ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org