SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः ] पद्भ्यामुत्तरीतुमिच्छुरस्मि । किमुक्तं भवति - यथा पङ्गोः पद्भ्यामरण्यानीपरपारगमनमसुकरमेवं ममापि परमात्मस्तुतिप्रथनमिति । १५ यद्येवं किमात्मशक्त्यननुरूपेणाने नैवोपक्रमेत्याह । तथापि श्रद्धामुग्धाहं नोपालभ्यः स्खलन्नपि । विशृङ्खलापि वाग्वृत्तिः श्रद्दधानस्य शोभते ॥८॥ तो पण श्रद्धाथी मुग्ध एवो हुं प्रभुनी स्तुति करवामां स्खलना पामवा छतां उपालम्भने पात्र नथी. श्रद्धाळु आत्मानी संबंध विनानी वाक्यरचना पण शोभाने पामे छे ॥ ८ ॥ पुनः कारणान्तरं विमृश्य स्तत्रोद्योगं दर्शयन्ति तथा० तथापि निर्विचारत्वे सत्यपि श्रद्धामुग्धो वासनाप्रेरितस्वान्तोSहं स्तवने स्खलन्नपि स्वल्पमतितया गुणानन्त्यं प्रकटयितुमशक्नुवन्नपि नोपालभ्यः, मूर्ख ! मा वदेति न निराकार्यः यतः कारणात् श्रद्दधानस्य श्रद्धावतो विशृङ्खलासम्बद्धापि वाग्वृत्तिर्वचनरचना शोभते ॥ ८ ॥ / तथाप्येवं सत्यप्यहमस्मिन् वीतरागस्तवाध्वन्यध्वनीनतामाक लयन्नविकलसामर्थ्यशून्यः स्थाने २ स्खलन्नपि विमलमतिभिर्नोपालभ्यः । यतः परमात्मप्रतिबद्धस्तुतिश्रद्धया मुग्धः शक्यार्थविचारचातुर्य वर्जितः, एवंविधस्य च श्रद्दधानस्य निरुपाधिश्रद्धाबन्धबन्धु१ मूर्खोऽयं मूर्खोऽयमिति प्रत्यन्तरे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003020
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
AuthorChandraprabhsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1949
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy