________________
१३.
प्रथमः प्रकाशः ] (त्म)तां गतम् । यस्मिंश्च भगवति परमपरमेष्ठिनि विज्ञानमानन्दं ब्रह्म चैकात्मतां गतम् । तत्र मत्यादिज्ञानेभ्यः क्षायिकत्वेनाप्रतिपातित्वेनानन्तद्रव्यपर्यायगोचरत्वेन च विशिष्टं केवलालोकलक्षणं ज्ञानं विज्ञानम् । आनन्दं चात्मनः कदाप्यलब्धपूर्वस्वरूपलाभसमुद्भवमितरकारणकलापनिरपेक्षमनुपाधिमधुरमक्षयमात्यन्तिकं सुखमेव।ब्रह्म च परमं पदं, यदा च भवोपग्राहिकर्मपारंवश्यादद्यापि भवस्थः केवली भवति तदास्मिन् भगवति केवलिनि विज्ञानमानन्दं च वर्त्तते । अयं च परमपदं गमिष्यतीत्यात्मविज्ञानानन्दब्रह्मणां मिथः पृथग्भावः स्यादेव । शैलेश्यनन्तरं च सकलकर्मांशप्रक्षयादक्षयं पदमुपेयुष्यस्मिन् विज्ञानमानन्दं ब्रह्म चैकात्मतां याति स एव परमात्मा, स एव विज्ञानम् स एवानन्दः, स एव परमं बह्मेत्यभिन्नभावतां भजते । अतस्तत्र तस्मिन् पूर्वोपवर्णितस्वरूपे परमात्मनि स्तोत्रेण यथार्थवादेनाहं स्वामात्मीयां सरस्वती वाणी पवित्रां पावनी कुर्या-विदध्यामित्युत्तरेण संबन्धः । ननु किमस्याः प्रथमं किमस्यपूतत्वमस्तीत्युच्यते । स्वकर्मपरिणामेनाभ्यावृत्त्या भवे बंभ्रभ्यमाणानां प्रबलज्ञानावरणोदयाद्विशिष्टचित्तचैतन्यशून्यानामसुमतामसुलभैव कवित्ववक्तृत्वसरसा सरस्वती, यदा च तथाभव्यत्ववैचिच्यात् संघटितापि भवाभिनन्दिनां सुरनरादीनामसद्भुतगुणोद्भावनेनात्मानं मलिनयति, तदा परमात्मप्रभृतिस्तुत्यवर्गस्तुतिप्रयोगमन्तरेण किमन्यदधर्षणमस्यास्ततः तत्र स्तोत्रेणेत्युक्तम् । किञ्च अस्मिन् भवकान्तारे संसारारण्ये जन्मिनां सत्क्षेत्रायेकादशाङ्गीसंगतस्य जन्मनोऽवतारस्यापीदं सद्भूतं वस्तुतत्त्वोद्भावनमेव फलम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org