________________
१२
[ श्रीवीतरागस्तोत्रे “मनोरथानामगतिर्न विद्यते” इति न्यायात् स्पृहामात्रमपि तावद्धास्यामि येन सदभ्यस्ततया भवान्तरेऽपि संस्कारोऽयमनुवर्तत इति ।
पञ्चम्यन्तं पदमाह । प्रावर्त्तन्त यतो विद्याः पुरुषार्थप्रसाधिकाः । यतो यस्मात्सर्वविदः परमपुरुषात् पुरुषार्थानां धर्मार्थकाममोक्षलक्षणानां प्रसाधिकास्तदुपायोपदर्शिन्यो विद्याः शब्दविद्यादिकाः प्रावर्तन्त प्रादुरासन् । यतो द्वादशाङ्गीमूलनीवीमुत्पादादित्रिपदी तदुचितेषु भगवान् स्वयमुदीरयति । न च द्वादशाङ्गीव्यतिरिक्तमन्यदपि विद्याङ्गमस्तीत्यतः समस्तविद्यानां भगवानेव प्रभवः । अत एव ततस्तस्मात् परमपुरुषानुध्यानादहमपि पुमर्थोपलब्ध्या कृतार्थः कृतकृत्यो भूयासमित्युत्तरेण योगः । पुरुषार्थोपायोपलब्ध्या च कृतकृत्यता समीचीनैवेति ।
षष्ठ्यन्तं पदमाह । यस्य ज्ञानं भवद्भाविभूतभावावभासकृत् । यस्य भगवतः परमात्मनो घातिकर्मणामात्यन्तिकक्षयादुत्पन्नज्ञानं देशकालस्वभावविप्रकषैरनन्तरितमत एव भवद्भाविभूतभावावभासकृद वर्तमानानागतातीतपदार्थसार्थप्रकटनपटिष्ठम् । तस्यैवम्भूतस्याहं किङ्करो भवेयमित्युत्तरेण योगः । अत्रायमाशयः । किलास्मिन् जगति यस्य विसंवादित्वेनानैकान्तिकोऽष्टाङ्गनिमित्तमात्रावभासनपरो ज्ञानांशः स्यात् सोऽपि तदर्थिभिः प्रेप्यैरिव प्रतिक्षणमुपास्यते । यस्य च भगवतः प्रागुपवार्णतस्वरूपं ज्ञानं तस्य किङ्करत्वमनुत्तरसुरा अपि कुर्युः, किमङ्ग मादृशोऽङ्गभागिति ।
सप्तम्यन्तं पदमाह । यस्मिन् विज्ञानमानन्दं ब्रह्म चैकाङ्ग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org