SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः तत्र “ अनित्याशुचिदुःखानात्मसु मिथ्याज्ञानमविद्या" । दुर्धराहंकारवशात् सर्वत्राऽस्मीतिभावोऽस्मिता" । " मनोज्ञेषु शब्दादि वात्मनो गाढाभिष्वङ्गो रागः " | " तेष्वेवामनोज्ञेषु भृशमप्रीतिविशेषो द्वेषः ” । “ अतत्त्वेऽपीदमित्थमेवेत्येकान्ताग्रहग्रहिलताऽभिनिवेशः"। उपलक्षणं चैतदन्यासामपि घातिकर्मोत्तरप्रकृतीनाम्। एते च संसृत्यामात्मनोनादिसंबन्धवशाबद्धमूलाः, प्रदर्शिततत्तद्विकारप्ररोहसंहतयः, स्फुरदाध्यात्मिकाधिभौतिकाधिदैविकवेदनोदयप्रसूनसंततयः, प्रकाशितामुष्मिकदुर्गदुर्गतिदुःखफलपटलाः, पादपा इव पादपाः । ते च सङ्गत्यागादाकेवलोत्पत्ति त्रिजगदप्रतिमल्लहम्तिमल्लेन येन भगवता दुस्तपतपोंदोललनेन (?) चलाचलतामापाद्य शुक्लध्यानसमुद्दण्डशुण्डामेडनेन समूलाः सहेलमुन्मूलितास्तेन त्रिजगन्नाथेनाहमपि नाथवान् स्यां भवेयमित्युत्तरेण योगः । येनासौ मामलब्धानां ज्ञानादिगुणानां लम्भनेन तेषामेव च लब्धानां परिपालनात्ताननुगृह्णाति । .. चतुर्थ्यन्तं पदमाह । मूर्धा यस्मै नमस्यन्ति सुरासुरनरेश्वराः । यस्मै समूलोन्मूलितक्लेशपादपाय भगवते सुरासुरनरेश्वरा देवदानवमानवपतयः सकलक्लेशजालोच्छित्तिनिमित्तं मूर्धा उत्तमाङ्गेन सरभसं नमस्यन्ति । तस्मै त्रिभुवनसनातनगुरवे समाहितस्तदेकतानमानसोऽहमपि स्पृहयेयं, प्रणामादिनिमित्तं स्पृहामावहामीत्युत्तरेण सम्बन्धः । इदमुक्तं भवति । किल यद्यपि सुरासुरेश्वरादिवत् प्रत्यक्षाहत्प्रणामादिसामग्री दुःषमासमयसमुद्भूतस्य ममासंभविनी तथापि १ अध्यात्ममधिभूतमधिदैवश्च त्रिविधं दुःखम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003020
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
AuthorChandraprabhsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1949
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy