________________
[ श्रीवीतरागस्तोत्रे अतो यः किल परात्मा परंज्योतिः स श्रद्धेयः। यश्च परमेष्ठिनां परमः स ध्येयः, यं चादित्यवर्णं तमसः परस्तादामनन्ति तं शरणं प्रपद्ये। येन च समूलाः सकलक्लेशपादपाः समुदमूल्यन्त तेन नाथवान् स्याम् । यस्मै च सुरासुरनरेश्वराः सरभसं नमस्यन्ति तस्मै समाहितः स्पृहयेयम् । यतश्च पुरुषार्थप्रसाधिका विद्याः प्रावर्तन्त ततः कृतार्थो भूयासम् । यस्य च भवद्भाविभूतभावावभासकृद् ज्ञानं तस्य किङ्करो भवेयम् । यस्मिश्च विज्ञानमानन्दं ब्रह्म चैकात्मतामुपगतं तस्मिन् स्तोत्रेण स्वां सरस्वती पवित्रां कुर्यामिति पदानां परस्परसम्बन्धः ।
___ साम्प्रतमेतदेव प्रतिपदं व्याख्यायते । तत्र परश्वासावात्मा च परात्मा, परत्वं चास्य देहात्मान्तरात्मापेक्षम् , यतः कैश्चिदुपयोगलक्षणमनादिनिधनं अपौद्गलिकत्वेन रूपातीतं तथाविधसामग्रीसाकल्यात् शुभाशुभरूपस्य कर्मणः कर्तारमुदयप्राप्तस्य तस्यैव च भोक्तारमत एवैतल्लक्षणविलक्षणादेहादर्थान्तरभूतमविसंवादिप्रमाणप्रतिष्ठितमप्यात्मतत्त्वं महामोहोपहतमतित्वेनामन्यमानैः पिष्टादिद्रव्ययोगान्मदशक्तिमिवाचेतनमहद्भूतसंपर्काचेतनत्वमुद्भाव्य देहस्यैवात्मस्वमुपकल्प्यतेऽतः स देहात्मा । यथा देहातिरिक्तस्यात्मनः सत्प्रमाणप्रतिष्ठितत्वं तथा पुरस्तादष्टमप्रकाशे प्रकाशयिष्यते अन्तरात्मा च ज्ञानावरणादिकर्मनिर्मथितमाहात्म्यः शरीरी संसारिजीवः । एतयोश्च वक्ष्यमाणविशेषणगणासहत्वेन प्रकृतानुपयोगित्वमतः परशब्दोपादानम् । परात्मा च विगलितसकलकर्ममलघटलः सम्यसिद्धज्ञानदर्शनाऽऽनन्दवीर्यलक्षणानन्तचतुष्टयः शिवम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org