SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ प्रथम प्रकाशः ] त् कारणाद् भवकान्तारे संसारारण्ये जन्मिनां जीवानां, जन्मनः पादपरूपस्य इदमेव वीतरागस्तवनं फलम्, नान्यत् ॥ ६ ॥ ॐ नमः सर्वज्ञाय । अनन्तदर्शनज्ञानवीर्यानन्दचतुष्टयम् । संस्मृत्य परमात्मानमनाहतमहः श्रियम् ॥ १ ॥ अनल्पमतिभिः साध्यमल्पधीरपि भक्तितः । वे विवरणं किञ्चिद्वीतरागस्तवानुगम् || २ || इह हि तथाभव्यत्ववैचित्र्यवशप्रशान्तदुरन्तज्ञानावृतितमः समुल्लसिताद्भुत प्रतिभात्म (स्मा) दर्श संक्रान्त समस्तशास्त्रोपनिषद्भिर्निरवधिनयविक्रमप्रसिद्धसिद्धाधिपश्रीजयसिंहदेवप्रणय मञ्चिताभिनवशब्दानुशासनैर्विकस्वरविवेकनिस्तन्द्र चौलुक्य चन्द्र परमार्हतश्रीकुमारपालभूपालमौलिलालितक्रमनख मयूखैः प्रवर्तिताद्भुतश्रीजिनराजशासनोन्नतिगलहस्तिातिकलुषदुःषमाकालविलसितैरनन्यसामान्यागण्यपुण्यप्रभावभूरिभिः श्रीहेमचन्द्रसूरिभिर्विरचितेषु समस्तस्तुतिर सरहस्य निस्यन्दपात्रेषु श्रीवीतरागस्तोत्रेषु तावत्प्रथमस्य पदयोजनामात्रमुप - क्रम्यते । अत्र च शास्त्रकृतामुद्देशनिर्देशक्रमेणैव शास्त्रविन्यासोऽतः समय परिपालनाय स्ववदनमात्रतया समस्तस्तवार्थमुद्दिशन् परमात्मानमभिष्टुवन्नाह । यः परात्मेति । वि०-- अत्राद्यसार्द्ध श्लोकत्रयस्य पदानां प्रथमादिसप्तम्यन्तविभ क्तिप्रथमवचनान्तानामुत्तरश्लोकद्वयस्य तदन्तैरेव पदैर्यथाक्रमं कर्तृ-कर्म्मविवक्षया योजनं कार्यम् । तथाहि परात्मेति विशेष्यं पदम्, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003020
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
AuthorChandraprabhsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1949
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy