________________
[ श्रीवीतरागस्तोत्रे प्राव० यतो यत्सकाशाद्विद्याः शब्दविद्यादिकाश्चतुर्दश, धर्मार्थकामादिपुरुषार्थानां प्रसाधिका विधायिकाः प्रावर्तन्त अभूवन् , यद्वा द्वादशाङ्गीगता विद्याः सुवर्णसिद्ध्यादिप्ररूपिकाः । यस्य ज्ञानं भवद्भाविभूतभावावभासकृद्-अतीतानागतवर्त्तमानवस्तुप्रकाशकमस्तीति गम्यम् ॥ ३ ॥ ___ यस्मिन्० यस्मिन्विशिष्टं ज्ञानं विज्ञानं केवलज्ञानमानन्दमकृत्रिमसुखं ब्रह्म च परमपदं त्रीण्यप्येकात्मतामैक्यं गतानि स एव वीतरागजीवः स एव ज्ञानं ज्ञानकरूपत्वा- . त्तस्य, स एव च सुखं दर्शनस्पर्शनादिबाह्यस्य कस्यापि तत्राभावात् , स एव मुक्तिरूपस्याभावात् । अथ तच्छब्दं दर्शयन्त आहुः, स श्र-स पूर्वोक्तपरात्मादिविशेषणविशिष्टः श्रद्धेयः, स्वहृदयरुचिविषयः कार्यः, च पुनः स ध्येयो रूपातीततया ध्यातव्यस्तं तमसः परस्तादानातं शरणं प्रपद्ये स्वीकरोमि ॥ ४॥
तेन तेनोन्मूलितक्लेशपादपेन नाथवान् सनाथोऽहं स्यां भवामि, तस्मे सुरासुरनमस्कृतायाहं समाहितस्तदेकतानमना: स्पृहयेयं वाञ्छामि, ततः प्रकटितपुरुषार्थसाधकविद्यासमुदाया. दहं कृतार्थः कृतकृत्यः प्राप्ताभीष्टकार्यो वा भूयासं भवामि भविध्यामीत्यर्थः। तस्य त्रिकालज्ञानवतः किङ्करो भवेयमस्मि ॥५॥
तत्र तत्र विज्ञानानन्दब्रह्मरूपे स्वां सरस्वती वाणी, स्तोत्रेण कृत्वा पवित्रां कुर्यां करोमि । को हेतुः ?, हि यस्मा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org