________________
प्रथमः प्रकाश: ]
प्रभुभिराम्नाता इति मूलसम्बन्धस्तेषूत्तराणां विंशतेः प्रकाशानामर्थमात्रं लिख्यते । प्रभुश्रीहेमचन्द्रसूरयः शिशुशिष्यशेमुषीविशेषोन्मेषाय प्रथमस्तवे यत्तच्छब्दयोः सप्तविभक्त्येकवचनव्युत्पत्ति प्रदर्शयन्तो निजभक्तिं प्रकटयन्ति, यथा
यः परात्मेति. परश्वासावात्मा च परात्मा सर्वसंसारिजीवेभ्यः प्रकृष्टस्वरूपः, पुनः किंविशिष्टः ?,-परंज्योतिः। परं सकलकर्ममलकालुष्यरहितत्वेन केवलं ज्योतिर्ज्ञानमयं यस्य स तथा । परमिति केवलार्थेऽव्ययं, परमे चिदानन्दरूपे पदे तिष्ठन्तीति परमेष्ठिनोऽर्हदादयः पञ्च, तेषां परमः प्रधानभूतः । परमत्वं चास्य मुक्तावस्थामधिकृत्य, परमेष्ठिनामिति षष्ठी " सप्तमी चाविभागे निर्धारणे” इति (२-२-१०९) सूत्रेण । तथा यं वीतराग तमसः परस्तादामनन्ति ध्यायन्ति तत्स्वरूपोपलब्धये मनीषिणः । क ? परस्तात् परस्मिन्पारे, कस्य ? तमसोऽज्ञानरूपस्य, किम्भूतं यम् ? आदित्यवर्णमादित्यस्येव वर्ण उद्द्योतो यस्य तं तथा, भानोरुपमानमन्यस्य तथाविधस्य वस्तुनोत्राभावात् , परस्तादिति पठिततमसोऽज्ञानरूपान्धकारस्याने आदित्यवर्ण मूर्याभं तद्विनाशकमित्यर्थः ।। १॥
सर्वे० येन सर्वे समस्ताः क्लेशा रागद्वेषादयस्त एव पादपा वृक्षा नरकादिकटुफलदायित्वेन समूला मिथ्यात्वमूलसहिता उदमूल्यन्त उन्मूलिताः, यस्मै मूर्ना सुरासुरनरेश्वरा नमस्यन्ति-नमस्कुर्वन्ति ॥ २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org